________________
४४
विजयमशस्त्याम् ।
देवे गुरौ भगवदुक्तिषु तत्त्वरूपा श्रद्धा यदीयहृदि मुक्तिवशाऽऽप्तिदूती । प्रोच्चैः प्रकाशमकरोदनघं घनश्रीः स्नेहाढ्यदीपकलिकेव गृहान्तराले ॥५७॥
देवे देवाधिदेवे, गुरौ सुविहितसाधौ, भगवदुक्तिषु जिना - गमेषु, तत्त्वरूपा यथार्थाऽवबोधरूपा, श्रद्धा श्रद्धानं सम्यक्त्वमित्यर्थः । यदाहुः श्रीहेमचन्द्रसूरीन्द्राः -
'या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मषीः शुद्धा सम्यक्त्वमिदमुच्यते ' ॥ १ ॥
इत्यादिशास्त्रोक्तस्वरूपसम्यग्देवगुरुधर्मास्तिक्यलक्षणा श्रद्धा; किं० मुक्तिवशा सिद्धिवधूस्तत्प्राप्तौ दूती संदेशहारिका, तन्मेलापककारित्वात् ; यदीयहृदि यस्य श्रेष्ठिनो मनसि, प्रकाशसुद्द्द्योतमकरोत् कुरुते स्म । कथं, अनघं मनोज्ञं निष्पापं निर्मलम्, यथा स्यात् तथेति क्रियाविशेषणम् । अत्र दृष्टान्तमुद्भावयति — यथा स्नेहाढ्या दीपकलिका, गृहान्तराले वासमध्ये, प्रकाशं कुरुत इत्यादि ॥ ५७ ॥
अथ गुरोः पितुर्वर्णनानन्तरं मातरं दशभिर्वृत्तैर्वर्णयति । तथाहि
विष्णोः पयोधिदुहितेव पुलोमजेव
वास्तोष्पतेः रतिरिवासमसायकस्य ।