________________
अष्टादशः सर्गः ।
६२३
पनश्रवणश्रावणादिरूपस्तत्र ये पारीणधियः पारप्राप्तमतयः सकलशास्त्राऽर्णवाऽवगाहिन इति तेषाम् धुरीणं धौरेयं तन्मुख्यत्वादिति । अयमुपजातेर्द्वादशो भेदः ॥ ४१ ॥
वर्धापनैर्नूतनकाञ्चनानां मौक्ताफलैर्न्यञ्छनकैरतुच्छैः । सनन्दिनन्दीविधिभिर्विचित्रै
स्तत्रोत्सवाद्वैतमिवाऽजनिष्ट ॥ ४२ ॥
तत्र पुरे, नूतनकाञ्चनानां नव्यकारितस्वर्णकुसुममुद्रिकाकङ्कणकुण्डलादीनां, वर्धापनैः, गुरोरिति गम्यम्, पुनः, अतुच्छैर्मौक्ताफलैर्मुक्तामयैर्युच्छनकैः गुरोरुपर्युत्तारणरूपैः, पुनः, सनन्दयो याः ससंपदः नन्दीविधय उपधानमालारोपणतुर्यव्रतद्वादशवतादिविविधनियमनन्दविकारास्तैः, उत्सवाद्वैतं केवलो - त्सवमयमिव, अजनिष्ट जातम् । अयमुपजातेः सप्तमः प्रकारः॥४२॥ चञ्चच्चतुर्मासकमेतदुच्चै - र्वचोविलासेन गणाधिराजाम् ।
तैस्तैः प्रकारैः फलवद् बभूव घनाघनेनेव लतावितानम् ॥ ४३ ॥
एतत् चञ्चत् चारु चतुर्मासकम्, गणाधिराजां सुरीणां, वचोविलासेन वाग्विलासेन, तैस्तैः प्रकारैः उक्तपूर्वः पुरो वक्ष्यमाणैश्च फलवत् सफलं बभूव । दृष्टान्तमाह-लतावितानं वल्लीव्यूहः, घनाघनेनेवेति यथा तथेति । अयमुपजातेर्दशमः प्रकार इति ॥ ४३ ॥
,
इतः पुरा सूदित दैन्य सैन्ये श्रीरामसैन्याहपुरे पुराणे ।