SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६२४ विजयप्रशस्त्याम् । मध्याद् भुवः प्रादुरभूददभ्रादभ्रादिवाऽर्कः प्रभुमारुदेवः ॥ ४४ ॥ " इतोऽव्ययं संबन्धान्तरसुचकम् तेन इतोऽन्यदा, पुरा पूर्व ग्रन्थकरणकालापेक्षया पुराकाले तपागच्छनायकभट्टारकश्रीहरिविजयसरिवरसाम्राज्ये सति सं० १६२९ वर्षे, श्रीरामसैन्याहपुरे रामसेणस्थाने डीसाख्यनगराभ्यर्णवर्तिनि किं०, पुराणे जीर्णे, पुनः किं०, सूदितं खण्डितं दैन्यमेव सैन्यं येन यत्र वा, लोकानामिति लक्षणया गम्यम् ; तत्र भुवो मध्यात् मभ्रुमारुदेवः श्रीवृषभः, प्रादुरभूत् प्रकटीबभूव, अदभ्राद् महतोभ्राद् यथा अर्कः सूर्य इति दृष्टान्तः । अयमुपजातेः पञ्चमो भेदः ॥ ४४ ॥ तदीयमूर्तेश्च निभाव्य तेजो Sतिशायि कल्याणमयं महीयः । आश्चर्यपूर्णा मनुजाः सुवर्णनरोऽयमस्तीति विदाम्बभूवुः ॥ ४५ ॥ च पुनः, तदीयमूर्तेः श्री ऋषभ स्वामिप्रतिमायाः, तेजो महः, किं०, अतिशायि अत्युत्कृष्टं यत्कल्याणं कनकं तन्मयं साक्षाद् हिरण्यमयमिति, पश्यतां विभ्रमोत्पादकत्वाद, निभाल्य दृष्ट्रा, आश्वर्येण विस्मयेन, पूर्णा मनुजा जनास्तद्देशवासिनः, इति विदाम्बभूवुर्ज्ञातवन्तः इतीति किम्, तदेवाह - सुवर्णनरः किमयमस्ति, एतावता वर्णसाधर्म्यात् सुवर्णपुरुष एष इति लोकैरज्ञायीति भावः । अयमुपजाते तृतीयो भेदः || ५४|| " अनेकलोकाम्बक कैरवाणामाराममामोदपदं प्रकुर्वन् ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy