SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः। . ६२५ सङ्कोचकृत् गापपयोरुहाणां . भानुर्नवीनोऽजनि तत्प्रभावः ॥ ४६ ॥ अनेके ये लोकास्तेषामम्बककरवाणां नयनेन्दीवराणाम् , आरामं वनमामोदपदं हस्पिदम्, प्रकुर्वन् , पुनः, पापपयोरुहाणां पातककमलानाम्, सङ्कोचकृद् म्लानिकारीति, तत्मभावस्तस्य वृषभदेवस्य प्रभावः प्रतापः, उक्तविशेषणसद्भावात् सूर्यधर्मवैपरीत्याच नवीनो भानुः, अजनि जातवान् । अयमपि पञ्चमोपजातिभेदः ॥ ४६॥ तस्मिन् दृशोरध्वनि नीयमाने बिम्बे जगहओरिवांशुबिम्चे । सवेशवासाऽतुलकौलिकादि भीर्ध्वान्तवत् तत्र नृणां प्रनष्टा ॥ ४७ ॥ तस्मिन् जगद्भर्तुर्विम्बे दृशोरध्वनि चक्षुषोः पथि, नीयमाने सति, इव यथा, अंशुविम्बे मूर्यमण्डले, दृष्टे सति, ध्वान्तवत् , तत्र देशे नृणां नराणां, सवेशवासाः समीपवासिनो ये अतुलाअप्रमाणा ये कोलिकादयस्तस्कराः, आदिशब्दात् तुरुष्कराजपुत्रपगीप्रमुखा ये ग्रामोपद्रवकारिणस्तेपां भी तिः, प्रनष्टा । अयमपि सप्तमोपजातिप्रकारः ॥ ४७ ॥ तां मूर्तिमुद्यन्महिमाभिरामां श्रद्धालवः पूरितकामकामाम् । निवेशयामासुरंथो तदावि___ भीवास्पदे भूमिगृहे महेन ॥ ४८ ॥ अथो श्रद्धालवः श्रावकाः, तां मूर्ति, किं०, उधन्महिम्ना महामाहात्म्येन अभिरामां, पुनः किं०, पूरिताः पूर्णीकृताः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy