SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ६२६ विजयप्रशस्त्याम् । कामम् अत्यर्थ कामा अभिलाषा यया ताम् , तदाविर्भावाऽऽस्पदे तत्प्रकटीभवनभूमिस्थाने भूमिगृहे, निवेशयामासुः अस्थापयन् । अयमपि सप्तमो भेदः ॥४८॥ . पृथ्व्यां पृथिव्यां प्रथितप्रभावं तत्तीर्थमत्यर्थमपास्तदौःस्थ्यम् । साक्षात् समायात इवादिनाथ प्रभुः प्रभूताइतहेतुरासीत् ॥ ४९ ॥ तत्तीर्थ श्रीरामसैन्यस्थप्रतिमालक्षणं, पृथिव्यां भूमो, कि०, पृथ्व्यां विस्तीणीयामिति, प्रथितः प्रसिद्धः प्रभावः प्रतापो यस्य तत् ,पुनः किं०, अत्यर्थमपास्तदौःस्थ्यं ध्वस्तदौर्गत्यम् , इवेत्युत्प्रेक्ष्यते-साक्षात् आदिनाथप्रभुः समायात इति, प्रभूताशवहेतुमहाश्चर्यस्य हेतुः कारणमासीत् । अष्टमोपजातिरियम् ॥ ४९ ॥ .. तस्याथ तीर्थस्य नमस्कृते द्राक् श्रीराजधन्याह्वपुरीयसङ्घः। विहर्तुकामैर्गतकामकामैः श्रीसूरिसिंहैः सहितश्चचाल ॥ ५० ॥ अथ तस्य तीर्थस्य नमस्कृते नतिकरणार्थ, श्रीरायधन्यपुरीयः सङ्घः श्रीसूरिसिंहैः किं०, विहर्तुकामैः पूर्वमपि चतुमासकपारणके चिचलिषुगिः, पुनः, गतकामकामैर्निष्कामाभिलापैः, सहितः चचालेत्यचलत् । सप्तमभेदोपजातिरियम् ॥५०॥ उन्मूलयन् वर्त्मनि दुर्मतीनां वृन्दं दुमाणामिव वारणेन्द्रः। पदे पदे भूरिधनैर्जनौधैः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy