SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः। ३७१ इतश्चश्रीराजदेशावनिवामलोचना भालस्थलस्थूलललामलक्ष्मिकृत् । आसीदिलादुर्गपुरी वरीयसी भोगावतीवाऽतुलभोगिभासुरा ॥ ४९ ॥ इतश्चेत्यव्ययपदेनाथ भाविनो गुरुपट्टधरस्य श्रीविजयदेवसूरेश्वरित प्रपश्चयवि-इलादुर्गपुरी आसीदित्यन्वयः। कि०, वरीयसी वरिष्ठा, पुनः किं०, श्रिया स्वर्गखण्डस्पर्धिन्या विचित्रचित्रारामकामकेलिवनानेककेलीवनवापीकूपतटाकतटिनीगिरिवरतरुवरतरुणतरतरुणीरामणीयकेन निखिललोकलोचनाडादवर्धिन्या युक्तोराजदेशनामा योदेशस्तस्याऽवनिवामलोचनाया भूभामिन्या भालस्थले स्थूलां पीनां ललामलक्ष्मि तिलकलक्ष्मीं करोतीति श्रीराजदेशावनिवामलोचनाभालस्थलस्थूलललामलक्ष्मिकृत , लक्ष्मीवल्लक्ष्मिशब्दः शब्दप्रभेदनामकोशगतोऽवसेय इति । इवोसेक्ष्यते-भोगावतीव नागपुरीव, किं०, अतुलभोगिभिर्बहुप्रधानलोकः, पक्षेऽतुलभोगिभिभूरिभुजङ्गमैर्भासुरा दीप्लेति॥४९॥ तत्राऽभवत् सभ्यमहेभ्यमण्डनः श्रेष्ठी स्थिराख्यः स्थिरधीः शुभाऽध्वनि । स्फूर्जप्रभः पुण्यजनेषु विश्रुतः श्रीदोऽलकायामिव संपदां पदम् ॥ ५० ॥ .. तत्रेलादुर्गे, स्थिराख्यः श्रेष्ठी अभवदित्यन्वयः । कि०, सभ्येषु सभाऽऽस्तारेषु पुनर्महेभ्येषु महाधनिषु मण्डनोऽ लङ्कारः, तभूषणत्वात् , पुनः किं०, स्थिरधीनिश्चलमतिः,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy