SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ एका दशमः सर्गः । ३८१ पूज्यांहिसेवासुरवीरुधः फलम् ॥ ७१ ॥ स शिष्यः, पूज्यांहिसेवासुरवीरुधः गुरुचरणोपास्तिकल्पवल्लेः, किं०, छाया शोभाऽनातपश्च, ततश्छायां करोतीति छायाकृत् य उल्लासश्चित्तानन्दरूपस्तद्रूपा पलाशसन्ततिः पत्रपतिर्यस्यास्तस्याश्छायाकृदुल्लासपलाशसंततेः, पुनः, स्फूर्जयशोरूपस्य पुष्पकलापस्य प्रमूनजातस्य संपद् यस्यास्तस्याः स्फूर्जद्यशःपुष्पकलापसंपदः, पुनः, अवद्यार्तिहृतः पापपीडापहारिण्याः, विद्याः फलं शास्त्रज्ञानरूपं फलं, आसदत् प्राप्तवान् ।। ७१ ।। सौभाग्यभाजोऽहिवदेऽभिधानभृ च्छ्राध्यास्त्रिवेद हिमांशुवत्सरे । एकादशे चन्द्रयुतेऽह्नि फाल्गुने . प्रौढां प्रतिष्ठां विदधेऽथ सूरिराट् ॥ ७२ ॥ . अथेत्यस्मिन्नवसरे, तत्रैव राजनगरे,अहिवदेऽभिधानभृत्श्राख्या अहिवदेनाम्न्याः श्राविकायाः,किं०, सौभाग्यभाजः सुभगत्ववत्याः, गृहे इति शेषः। कस्मिन्, त्रयश्च वेदाश्च ऋतवश्व हिमांशुश्च त्रिवेदतुहिमांशवस्तैर्वामगतिगणितैर्यः संवत्सरस्तस्मिन् १६४३संवत्सरे, पुनरह्नि दिने तिथौ, किं०, एकादशे ११ तिथौ कि०, चन्द्रयुते शुक्ले, पुनर्मासे फाल्गुने, प्रौढां प्रतिष्ठां जिनविम्बस्थापनां, मूरिराड् विदधेऽकरोत् ॥ ७२ ॥ गन्धारवास्तव्यजनेन्द्र इन्द्रजी नामा महेभ्यः सुगुरोर्नमस्कृते। अभ्यागमत् प्रीतमना अहम्मदा वादं पुरं प्राञ्जलिरभ्यधत्त च ॥ ७३ ॥ गन्धारबन्दिरवास्तव्या ये जनास्तविन्द्रस्तन्मुख्यत्वात् ,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy