SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८२ विजयप्रशस्त्याम् । इन्द्रजीनामा महेभ्यः, सुगुरोराचार्यपादस्य, नमस्कृते वन्दनाय, अहम्मदावादं पुरं, अभ्यागमत् ; च पुनः, माञ्जलिः कृताञ्जलिः सन्, अभ्यधत्ताऽवदत् ॥ ७३ ॥ स्वामिन्! महावीरविभोः प्रतिष्ठया कर्तास्मि जन्म स्वमहं स्फुरत्फलम् । तद् मङ्क्षु गन्धारपुरं पवित्रय स्खैः पादपाथोरुहपांसुभिः प्रभो ! ॥ ७४ ॥ हे स्वामिन् गुरो ! महावीरविभोः प्रतिष्ठयाऽहं स्वं जन्म, किं ं, स्फुरत्फलं फलभाग कर्तास्मि जन्मफलं लातुकामोऽस्मीत्यर्थः । तत् तस्माद्धेतोः, गन्धारपुरं बन्दिरं, स्वैः पादपायोरुपांशुभिः हे प्रभो ! त्वं पवित्रयेति ।। ७४ ।। हृष्टो महेभ्यव्रजराजहस्तिन स्तस्येति वाचा विनयप्रपञ्चया । सूरिर्महत्त्वैकपदं क्रमाद्गाद् गन्धारमादित्य इवाश्विनीं पुरम् ॥ ७५ ॥ तस्येन्द्रजीनाम्नः, किं०, महेभ्यव्रजराजहस्तिनो व्यवहारिकुञ्जरस्य, वाचा, किं०, विनयस्य प्रपञ्चो यस्यां तया, हृष्टः सन् सूरिस्ततोऽहम्मदावादतश्चलन् क्रमात् अनुक्रमेण, आदित्य इवाऽश्विनी नक्षत्रं, गन्धारं पुरं नगरीं, किं०, महत्त्वस्य माहात्म्यस्य, सूर्यपक्षे महत्त्वस्योच्चत्वलक्षणस्य पदं स्थानं, अश्विनीस्थितो हि सूर्यो मेषराशिसद्भावादुच्च इति ज्योतिर्विदां मतम् ; अगाद् गतवानिति ।। ७५ ।। वर्षेऽथ हव्याशनवेदपार्थिवे
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy