SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ३८३ दशमः सर्गः। ज्येष्ठाहमासे दशमे तिथौ सिते । शुद्धेऽह्नि तस्यां पुरि सूरिरिन्द्रजी गेहे प्रतिष्ठां चरमाहतोऽकरोत् ॥ ७६ ॥ अथ वर्षे, किं०, हम्यामना अअयस्त्रयः, वेदाश्चत्वारः, पार्थिवाः पोडश, एते वामगतिजुषो यत्र तत्र हव्याशनवेदपार्थिवे वर्षे १६४३ प्रमाणे, पुनः, ज्येष्ठाख्ये मासे, पुनः, दशमे तिथौ, किं०, सिते शुक्ले, अथवा सिते शुके वारे सति, पुनः, अह्नि दिने, कि०, शुद्ध धवले, अथवा शुद्ध निर्दोषे दिने, तस्यां पुरि गन्धारनाम्न्यां, इन्द्रजीगेहे चरमाऽर्हतः श्रीवीरस्य, प्रतिष्ठां सरिरकरोत् ॥ ७६ ॥ अत्रैव वर्षे बहुहर्षवर्षिणि श्रीस्तम्भतीर्थे नगरे गरीयसि । भूयोभिरुल्लासपयःपयोधरै रानन्दिताशेषजनेक्षणैः क्षणैः ॥ ७७ ॥ एकादशाख्येऽथ तिथौ तिथिप्रणी युक्तरे मासि च शुक्रसंज्ञके। प्रौढां प्रतिष्ठां पुनराहतीं गुरुः . श्राद्धीधनाईवरमन्दिरे व्यधात् ॥ ७८ ॥ अथाऽस्मिन्नेव वर्षे पूर्वकान्योक्त संवत्सरे, गन्धारतः क्रमजागत्य, क, श्रीस्तम्भतीर्थे नगरे, किं०, गरीयसि द्रव्यभावाभ्यां महति, भूयोभिर्बहुभिः, उल्लास एव पयः पाथस्तस्य पयोधरैर्मेधैः, पुनः, आनन्दितानि अशेषजनानामीक्षणानि नयनानि यैस्तैः, क्षणैरुत्सवः, जायमानैरिति शेषः ॥७७॥ पुनः, .
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy