SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ६६८ विजयाशस्त्याम् । सङ्घाऽऽग्रहात् ततो हीरसूरिस्वःप्राप्तिपाविते । तत्र चक्रे चतुर्मासी निस्सीमगरिमा गुरुः ॥३९॥ ___ ततः प्रतिष्ठात्रयीकरणानन्तरं, तत्रोन्नतद्रङ्गे,किं०, हीरसूरेः श्रीहीरविजयगुरूत्तमस्य स्वःप्राप्त्या स्वर्गगमनेन पावित, गुरुः किं०, निस्सीमगरिमा निरर्गलगौरवाऽऽन्यः,चतुर्मासी चक्रे ॥३९॥ अथ पारणके तस्मात् पुरात् सूरिपुरंन्दरः। चलितः कलितो लोकैः प्रतिष्ठाहेतवे द्रुतम् ॥४०॥ ''तस्मात् उन्नतपुरात् , अथ चतुर्मासकपारणके स मूरिपुरन्दरो गुरुः, लोकैः श्रावकश्राविकारूपैः अन्यैरपि गान्धर्वादिभिश्च, कलितः सन् , प्रतिष्ठाहेतवे चलित इति ॥ ४० ॥ क्रमाद् मुनिपतिः प्रापद् मकराकरमूलगम् । विवेकिलोकसंकीर्ण पत्तनं देवपत्तनम् ॥ ४१ ॥ स मुनिपतिः क्रमाञ्चलन् मकराकरमूलगं समुद्रान्तिकवर्ति, देवपत्तनं नाम पत्तनं पूर्व श्रीचन्द्रप्रभप्रभुवारके श्रीचन्द्रशेखरराजाङ्गजश्रीचन्द्रयशसा राज्ञा स्वामिनः समवसरणस्थाने जीवितस्वामिनश्चन्द्रप्रभस्य सार्धशतधनुर्मितचन्द्रकान्तरत्नमयपतिमाप्रासादालङ्कृतं चन्द्रप्रभासपुरमिति प्रथितं स्थापितं लोके प्रभासतीर्थमिति विस्तृतं सांप्रतं तु देवकपत्तनं नाम नगरं, पुनः कि०, विवेकिमिर्लोकः संकीर्ण प्रापत् ॥४१॥ तत्राऽस्त्यमरदत्ताख्यो धनी विष्णा यस्तथा। तृतीयो लालजीनामा धाम धर्मैकसंपदाम् ॥४२॥ तत्र देवकपत्तने, अमरदत्ताख्यो धनी धनवान् , पुनः, द्वितीयो विष्णाहयः, पुनः, तृतीयो लालजीनामा अस्ति, एते घयोऽपि किं०. धर्मः प्रतीवः, एका अद्वितीयाः संपदश्च धमैं
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy