SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। ६६९ संपदस्तासां धाम गृहमिति ॥ ४२ ॥ . व्यवहारिवरा भूरिमहोभरपुरस्सरम् । प्रतिष्ठा गुरुभिस्तिस्रः कारयामासुराशु ते ॥४३॥ ते व्यवहारिवराः त्रयोऽपि पूर्वोक्तनामकाः, भूरिमहोभर• पुरस्सरं बहुतरोत्सवातिशयपूर्वकं, गुरुभिः पूज्यैः,तिस्रः प्रतिष्ठाः कारयामासुरिति ॥ ४३ ॥ ततोऽपि च चलन् सूरिः पूरिताखिलदिग्यशाः । अभ्यागाद् द्वीपपावस्थं श्रीदेवकुलपाटकम् ॥४४॥ ततो देवपत्तनतः प्रतिष्ठात्रयं विधाय मूरिश्वलन् , पुनः किं०, पूरिता अखिला दिशो येनेदृग् यशो यस्य स पूरिताखिलदिग्यशाः, श्रीदेवकुलपाटकं देलवाडाख्यं पुरं द्वीपबन्दिरपार्श्ववर्ति, अभ्यागात् ॥ ४४ ॥ तत्र प्रतिष्ठामेकां तु हीरजीश्रावकौकसि। द्वितीयां च गृहे शोभांश्राद्धयाः सूरिवरोऽकरोत् ॥४५॥ . तत्र देवकुलपाटके, हीरजीनामा परीक्षको द्वीपबन्दिरवासी श्राद्धस्तस्य ओकसि गृहे, एका प्रतिष्ठा, च पुनः, द्वितीयां प्रतिष्ठां शोभानाम्न्या द्वीपवासिन्याः श्राद्धयाः, गृहे सूरिवरः करोत् कुरुते स्म ॥४५॥ फरङ्गीसमुदायेनाऽन्यदा काजीविराजिना। कपीतानकलासादिपादरीसहितेन च ॥ ४६ ॥ द्वीपबन्दिरतोऽभ्येत्य श्रीदेवकुलपाटके । इति विज्ञपयाञ्चके जल्पं दत्त्वा तपाधिपः ॥ ४७ ॥ अन्यदा फरङ्गीसमुदायेन, किं०,काजीविराजिना काजीनामा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy