________________
६७.
विजयमशस्त्याम् ।
फरङ्गीणां गुरुस्थानीय इति तेनान्वितेन,पुनः,कपीतानोऽधिकारिविशेषः,कलासः अमात्यविशेषः,तदादयोऽन्येऽपि फरङ्गीविशेषाः, पुनः, पादरीनामा फरङ्गी द्रङ्गे पद्रवास्तव्यस्तत्र नित्यस्थायी, तेन सहितेन॥ ४६॥ फरङ्गीसार्थेन किं कृतमित्याह- श्रीद्वीपवन्दिराद् देवकुलपाटके, अभ्येत्याऽऽगत्य, जल्पं दत्त्वा अस्माभिर्भवतां किमपि विरुद्धं न विधापनीयमित्यादि जल्पप्रदानपूर्व, तपाधिपः श्रीविजयसेनगुरुः, इति वक्ष्यमाणं, विज्ञपयाञ्चके विज्ञप्तिविषयीकृत इति ॥ युग्मव्याख्येति ॥ ४७ ॥
गुरूत्तंस ! त्वयाऽस्माभिधर्मगोष्ठी विधास्यते । .. विरूपं न च केनापि कस्यचित् संनिधास्यते ॥४८॥ - हे गुरुत्तंस! त्वया सह अस्माभिर्धर्मगोष्ठी विधास्यते, च पुनः, केनापि अस्मद्गृह्येण, कस्यचिद् भवद्गृह्यस्याऽनुगस्यापि, किश्चिद् विरूपं प्रतिकूलं, न संनिधास्यते केनापि प्रातिकूल्येन न स्थास्यत इति भावार्थः ॥ ४८॥
आगच्छ स्वच्छचेतस्त्वं तद् वरं द्वीपबन्दिरम् । नो चेत् तदा यस्त्वच्छिष्यमुख्यस्तं प्रेषय द्रुतम् ॥४९॥
हे स्वस्थचेतः ! निर्मलहृदय !, ततः कारणात् , त्वं द्वीपबन्दिरमागच्छ म्बयं पादैः पवित्रयेति, चेद् यदि, त्वं नागच्छसि तदा यः शिष्यः, किं०, त्वच्छिष्येषु मुख्यः स्यात् , तं तत्र प्रेषयेति ॥४९॥ एवं फिरङ्गीवर्गस्याऽऽग्रहेण प्राहिणोद् गुरुः । श्रीनन्दिविजयाऽऽह्वानवाचकं द्वीपबन्दिरे ॥ ५० ॥
एवमित्युक्तलक्षणेन, फरङ्गीवर्गस्य आग्रहेण, गुरुः मूरिः, श्रीनन्दिविजयाहानं वाचकं स्वशिष्यं, द्वीपवन्दिरे प्राहिणोद अपेपयत् ॥ ५० ॥