SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६७१ विंशः सर्गः । फरङ्गिमुख्यप्रमुखैस्तत्कलारञ्जितैः स च । सदकारि निजच्छत्रार्पणप्रासाददर्शनात् ॥ ५१ ॥ फरङ्गमुख्याः पाद्रीयकाजीप्रमुखास्तन्मुख्यैरपरैरपि फरङ्गीलोकैः किं०, तत्कलाभिः सद्रूपलावण्यवाक्पाटवादिभिः, रञ्जितैस्तुष्टैः, स वाचकः, निजच्छत्रार्पणं स्वकीयच्छत्रकपदानं, पुनः, स्वकीयमासादानां देवगृहाणां गृहाणां वा दर्शनं तस्मात् निर्जच्छत्रार्पणप्रासाददर्शनात्, सदकारि सत्कृत इति ॥ ५१ ॥ व्याख्यान वृषगोष्ठ्यादि कृत्वा स्थित्वा दिनत्रयीम् । सोऽन्वितः सङ्घलोकेनाऽभ्यागाद् गुरुपदद्वयीम् ॥५२॥ स वाचकः, व्याख्यानमुपदेशदानं वृपगोष्ठयादि जीवाऽजीवादिनवतस्यात्मकविचारस्वरूपनिरूपणादि, तत्र द्वीपे कृत्वा, फरङ्गीगेहेष्विति शेषः, पुनस्तत्र दिनत्रयीं स्थित्वा सङ्घलोकेनाऽन्वितः परिवृतः, गुरुपदद्वयीमभ्यागात् प्रत्यागत इति ॥ ५२ ॥ सूरिप्रष्ठस्ततस्तुष्टः स्वशिष्योन्नतिदर्शनात् । अथ प्रतस्थे यात्राऽर्थ जीर्णदुर्ग प्रति प्रभुः ॥ ५३ ॥ ततः स सूरिषु प्रष्ठो मुख्यः, स्वशिष्यस्य वाचकस्य उन्नतिदर्शनात् तुष्ट इति मुदितोऽभूत्, अथ प्रभुः कदाचिदवस रे जीर्णदुर्ग प्रति श्रीनेमिनाथयात्राऽर्थ, प्रतस्थेऽचलत् ॥ ५३ ॥ द्वीपबन्दिरवास्तव्यः सङ्घः श्रीमान् महामनाः । रैवताचलयात्रार्थमचालीद् गुरुणा सह ॥ ५४ ॥ अथ गुरुणा सह द्वीपबन्दियः सङ्घः किं०, श्रीमान् लक्ष्मीवान्, पुनः, महामना उदात्तचेता इति, रैवताचलस्य गिरिनारगिरेर्यात्रायै अचालीत् ॥ ५४ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy