SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः । ६६७ सत्र समस्तवणिजां मुख्यचन्द्रमा इव यथा ताराणामस्तीति गमनिका ॥ ३४ ॥ पद्मनाभस्य पद्मेव भाग्य सौभाग्य आजिनी | तस्यास्ति लाडकीनाम्नी चाव चञ्चललोचना ॥ ३५॥ पद्मनाभस्य विष्णोः, यथा पद्मा श्रीः, किं०, भाग्यं सौ-भाग्यं च भजतीत्येवंशीला, तथा तस्य मेघपरीक्षकस्य, चार्वी मनोज्ञा, चञ्चललोचना स्त्री, लाडकीनाम्नी साऽपि भाग्यसौभाग्यभाजिनी यतो दर्शनादेव यवनभूपानामपि मान्येति शेषः ॥ ३५ ॥ ताभ्यां कारयितुं दृब्धामथ प्रथितविस्तराम् । प्रतिष्ठामुन्नतद्र विदधे साधुसिन्धुरः || ३६ ॥ - अथ ताभ्यां दम्पतिभ्याम्, उन्नतद्रने समागत्य समस्तद्वीपसङ्गेन सह कारयितुं हन्यां मारयां प्रतिष्ठां, किं०, प्रथितविस्तरां सुगमं; साधुसिन्धुरो गुरुः, विदधेऽकरोत् ॥ ३६ ॥ श्राद्धाऽमूलाभिधानया । द्वितीयामद्वितीय तत्र निर्मापितां चक्रे प्रतिष्ठां हृष्टहृद् गुरुः ॥ ३७ ॥ पुनः, तत्रैवोन्नतदुर्गे, अमूलांनाम्म्या श्राड्या, किं०, अद्वितीया ऋद्धिर्यस्यास्तया महत्यर्थः; निर्मापितां प्रतिष्ठां हृष्टहृद् हर्षितचेता गुरुः, चक्रे कृतवानिति ॥ ३७ ॥ तृतीयामथ तत्रैव प्रतिष्ठां शिष्टसंपदा । श्राद्धः कालाभिधः सूरिचक्रिणाऽचीकरत् ततः ॥ ३८ ॥ अथ पुनः, तत्रैवोन्नतदुर्गे, द्वीपवन्दिरतः समेत्य कालाभिधः श्राद्धः शिष्टसंपदा विशिष्टश्रिया, प्रतिष्ठां किं०, तृती यां, सूरिचक्रिणा गुरुणा, अचीकरत् कारयामासेति ।। ३८ ।।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy