SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५६ विजयप्रशस्त्याम् । मत्तमातङ्गगामिन्यः सुरार्थाश्चलदर्शनाः । निन्द्या अपि मुदे सन्ति यत्र त्रस्तमृगीदृशः॥११॥ मत्तो मातङ्गश्चाण्डालस्तद्वदिति निन्दा,स्तुतिपक्षे मातङ्गोहस्ती तद्गामिन्यः; पुनः सुराया मदिराया अर्थो यासां ताइति निन्दा, स्तुतिपक्षे सुराणां देवानां अर्थः प्रयोजनं तत्स्पृहालक्षणं याभ्यस्ताः; पुनः कि०, चलं चञ्चलं दर्शनं यासां ता इति निन्दा, स्तुतिपक्षे चले चपले दर्शने नेत्रे यासां ताः । इति बाह्यतो निन्द्या अपि यत्र पुरे, त्रस्तमृगीदृशः स्त्रियः, मुदे सन्ति, सर्वेषामिति शेषः ॥ ११ ॥ शस्तहस्ताः स्फुरत्पद्मा दानिनः शोभनासनाः। इभ्या इभा इवाऽऽभान्ति यत्राऽवग्रहशालिनः ॥१२॥ यत्र पुरे, इभ्या व्यवहारिणः, इभा इव गजा इव, आभान्ति। किं०, एकत्र शस्ताः प्रशस्या हस्ताः पाणयः, अन्यत्र हस्ताः शुण्डा येषां ते पुनः स्फुरन्ती पद्मा रमा, अन्यत्र स्फुरन्त प्रकटानि पद्मानि इभबिन्दवो येषां ते “पद्मामिभबिन्दौ" इत्यनेकार्थत्वात पुनर्दानिनः दातारः, पक्षे दानिनः समदाः; पुनः शोभनं आसनं विष्टरं येषां ते, पक्षे आसनं हस्तिस्कन्धो येषां ते यदनेकार्थः"आसनं हस्तिस्कन्धे" इतिः पुनः अवग्रहो ज्ञानं तेन, पक्षेऽवग्रहोगजललाटं तेन शालिनः “अवग्रहो गजललाटे च" इत्यनेकार्थत्वादिति ॥ १२॥ यत्र प्रदत्तदृकशैत्येऽर्हच्चैत्ये मरजध्वनिः । धरत्यम्भोधरध्वानकलां वनकलापिनाम् ॥१३॥ यत्र अर्हच्चैत्ये, किं०, प्रदत्तं दृशोः शैत्यं येन तत्र, मुरजध्वनिमर्दानादः, वनकलापिनां काननमयूराणां गृहमयुराणां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy