________________
चतुर्यः सर्गः। सदा रम्भा यत्रः पुनः कि०, सदा सारं श्रेष्ठ, पक्षे सदा सारं धनं यत्र तत् अलकाया वस्त्रोकसारेत्यभिधानात्, यनगरं अलकासहा अभाद् भाति स्मेति ॥ ८॥
दृष्ट्रेत्यूचुर्जनान् यत्र यथाकामं प्रयच्छतः । किं पञ्चत्वमिता देवदुमा अस्मिन्नवातरन् ? ॥९॥ यत्र पुरे, यथाकामं मनोरथानुसारेण, यच्छतो ददतः, जनान् दृष्ट्वा इत्यूचुश्चतुरा इति शेषः। तदेवाह-पञ्चत्वं निधनं, इताः प्राप्ताः, देवद्रुमाः कल्पपादपाः, अस्मिन् पुरे, अवातरन् अवतीर्णाः, अत्र देवपादपानां नित्यत्वेन पञ्चत्वमापणे विरोधः, स तु पञ्चत्वं पञ्चसंख्याकत्वमित्यर्थसमर्थनेनाऽपास्तइति ॥९॥
छायाभृन्नन्दनानन्दाः सुरसार्थमनोहराः । यत्रोच्चैरप्सरायन्ते सत्कामाः कमलेक्षणाः ॥१०॥
यत्र कमलेक्षणाः पद्यलोचना मृगलोचना वा " कमलं पये कमलो मृगे च" इत्यनेकार्थत्वात्, स्त्रियः, अप्सरायन्ते स्वर्गस्त्रिय इवाचरन्ति । कयमिति शङ्कां विशेषणसापर्येण व्यपोहतिछायेति एकत्र छायाऽनातपस्तभृत् यत् नन्दनं इन्द्रोधानं तत्र आनन्दो यासां ताः, अन्यत्र छायाभृत्सु शोभावत्सु नन्दनेषु कुत्रेषु आनन्द इति; पुनः किं०, सुराणां देवानां साथैर्गणः, सार्थानां वा मनोहराः, पक्षे सुरसः शोभनो रसो यः शृङ्गारस्तस्य सर्वलोकप्रियत्वात् सर्वरसेषु मुख्यतया भणनाच ये अर्थाः प्रकाराः कामोद्दीपकहावभावविभ्रमादयस्तैर्मनोहरा, पुनः किं०, सन् विद्यमानः कामः कन्दर्पो यत्र, तस्य हि तत्र वसतिसद्भावात्, पक्षे सन्तः श्रेष्ठाः कामा अभिलाषा यासां ताः॥१०॥