________________
१५४
विजयप्रशस्त्याम्।
कामाः काम्याः कमनीया धेनवः करिण्य इवोन्नतत्वपुष्टत्वादिना कामधेनवः; पुनर्यत्र मानवाः सुपर्वाणः शोभनोत्सवाः, पक्षे देवाः तेन यो देशः, दिव्यवस्तुसद्भावाद्देवदेश इति प्रसिद्धिमानस्तीति शेषः ॥ ५॥
प्रतिद्रङ्गं प्रतिग्रामं प्रत्योकः प्रतिपाटकम् ।
आईत्यो मूर्तयो यत्र तेन पुण्यमयोऽस्ति यः ॥६॥ प्रतिद्रङ्ग नगरं प्रति, पुनामं प्रति, पुनरोको गृहं प्रति, पुनः पाटकं नगरावयवविशेष प्रति, यत्र देशे, आईत्यो जैन्यः, प्रतिमाः सन्ति; तेन कारणेन, यो देशो गूर्जरनामा, पुण्यमयोऽस्ति, अत्र मयदप्रत्ययः प्राचुर्यप्राधान्यख्यापकः ॥६॥
अथाऽष्टभिनगरं विशिनष्टिनित्यं जगज्जनानन्दिसुपर्वभरभासुरम् ।
प्रह्लादनपुरं तत्र पुरन्दरपुरोपमम् ॥ ७ ॥ तत्र देशे, प्रहादनपुर नगरमस्तीति योगः। कि०, पुरन्दरपुरं अमरावती तदुपमम् । द्वयोर्विशेषणमाह-जगजनानन्दीनि यानि सुपर्वाणि शोभनोत्सवास्तेषां भरेणातिशयेन, पक्षे जगजनानन्दिनो ये सुपर्वाणो देवास्तेषां भरेण भासुरं रम्यम् ॥ ७॥
नित्यं वैश्रमणोल्लासं नित्यं पुण्यजनप्रियम् ।
सदारम्भं सदासारं यदभादलकासदृग् ॥ ८ ॥ एकत्र वै निश्चयवाचकोऽव्ययः, श्रमणानां मुनीनामुल्लासो यत्र तत् , पक्षे वैश्रमणस्य कुबेरस्योल्लासो यत्र तत् पुनः कि०, पुण्यैर्जनेराहतः प्रियं रम्यं, पक्षे पुण्यजना यक्षास्तैः प्रियं, अथवा पुण्यजनानां यक्षाणां प्रियं वल्लभं पुनः किं०, सन्तः श्रेष्ठा आरम्भाः सुकृतकर्मोद्यमा अल्लोकानां यत्र, पक्षे