SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५५४ विजयप्रशस्त्याम् । स्तत्सदृशान् करुणांपूर्णान् इति, पुनः, सौन्दर्येण मीनध्वजाननकावतारानिति, पार्थः पात्विति ॥ १९ ॥ भोगत्यागनिबन्धनं परिजनप्रेमप्रसादाऽऽस्पदं वाल्लभ्यप्रसवा पुमर्थपृथिवीकन्दैककादम्बिनी। यन्नामस्मरणात् करोति कमला कान्तेव केलिं कुले पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२०॥ ... यन्नामस्मरणात् कमला कान्तेव केलिं करोति, कमला कि०, भोगश्च त्यागश्च दानं तयोर्निबन्धनं कारणं, पुनः, परिजनस्य प्रेमप्रसादयोरास्पदं, पुनः, वाल्लभ्यस्य प्रसवो यस्याः सेति, पुनः, पुमर्था धर्मार्थकामास्त एव पृथिवीकन्दास्तेषु कादम्बिनी मेघमाला, पार्थः ॥ २० ॥ . तन्वी त्रस्तकुरङ्गशावनयना मत्तेभकुम्भस्तनी बिम्बोष्ठी कनकच्छविः कृशकटिः पूर्णेन्दुपुण्याऽऽनना। यन्नामस्मरणाद् गृहे सुगृहिणी स्याच्छीललीलाऽन्विता पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२१॥ यन्नामस्मरणाद् गृहे सुगृहिणी शीललीलान्विता शीलवती स्यादिति, पुनः कीदृशी, तन्वीत्यावशेषं सुगमम् ॥ २१ ॥ वलगहाजिविराजितं गजघटाघण्टाटणत्कारभूरङ्गत्तुङ्गरथं पदातिपटलीपूर्ण प्रतापाऽऽस्पदम् । यन्नामस्मृतिमन्तमेति मनुजं राज्यं धुनीवाऽम्बुधिं पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥२२॥ ___ यन्नामस्मृतिरस्याऽस्तीति यन्नामस्मृतिमन्तं मनुजं, राज्यं, कि०, वल्गन्तो ये वाजिनस्तैर्विराजितं, पुनः, गजानां घटास्तासां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy