SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः । ५५३. पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥ १७॥ यन्नाम स्मरतां युद्धे जयो जायत इति, कीदृशे, उद्दण्डा द्विपास्तेपां गण्डमुण्डानि गल्लस्थलमस्तकानि तेषां निपतन्ति यानि खण्डानि तेभ्यः प्रचण्डं च उच्छलच स्रोत इव स्रोतः प्रवाहरूपं यत् शोणितं रुधिरं तेन पङ्किलं क्षितितलं यस्मिन्निति, अत एव भ्राम्यन्तो ये विहङ्गास्तैराकुले, पार्श्वः ० ॥ १७ ॥ कामं शृङ्खलकोटिकॄष्टकरणक्लेशस्तृषार्तः क्षुधाक्षामाक्षो निगडैर्निबद्धचरणः काराधिकारार्दितः । यन्नामस्मरणाद् भवादिव भवी बन्धाद् द्रुतं मुच्यते पार्श्वः पुण्यपयोजिनी दिनमणिचिन्तामणिः पातु वः॥१८॥ यन्नामस्मरणाद् भवी प्राणी, भवादिव यथा, तथा बन्धाद् मुच्यत इति, कीदृशः शृङ्खलकोटिभिः शृङ्खलायैः कृष्टः करणक्लेशो यस्येति सः, पुनः, तृषार्तः, पुनः, क्षुधाक्षामाक्षः बुभुक्षाग्लानेन्द्रियः, पुनः, निगडैर्निबद्धौ चरणौ यस्येति, पुनः, काराधिकारेण अर्दितः पीडितः, एवंभूतो भवी यत्मभावाद् मोक्षं लभतइति, पार्श्व इत्यादि ० ॥ १८ ॥ पित्रोः पादपयोजपांसुपटलीपूतोत्तमाङ्गान् कृपापारावारतुषाररश्मिसदृशान् सौन्दर्यमीनध्वजान् । यन्नामस्मरणादपत्यरहिताः पुत्रल्लभन्तेऽद्भुतान् पार्श्वः पुण्यपयोजिनीदिनमणिचिन्तामणिः पातु वः॥१९॥ यन्नामस्मरणात् अपत्यरहिता नरा अद्भुतान् पुत्रान् लभन्ते, किं०, पित्रोः पादपयोजपांसुपटल्या पूतं उत्तमाङ्गं येषां तान् नित्यं प्रणामपरान् इति, पुनः, कृपापारावारे तुषाररश्मिश्चन्द्र ७१
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy