SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५५२ विजयप्रशस्त्याम् । " म्भेभ्यो निर्मलानि गलन्ति च यानि मुक्ताफलानि तेषां श्रेणि-भिर्भूयो भूषितं भूतलं येनेति तस्मात् पुनः, बहुचलता हग्युग्मेन नुन्ना निर्जिताऽशनिर्विद्युद् येन तस्मात् पार्श्व इति० ॥ १४ ॥ स्फूर्जद्गर्जिततर्जितोर्जित पयोवाहोंहिघातानमक्ष्मापीठः प्रचुरक्षरन्मदजलव्यालोलगल्लस्थलः । यन्नामस्मरणाद् गंजोऽङ्गज इव स्थाणोर्हतौजा भवेत् पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः ॥१५॥ यन्नामस्मरणात् स्थाणोईरात्, अङ्गज इव, गजो हतौजा निfor भवेदित्यन्वयः कीदृशः, स्फूर्जता गर्जितेन तर्जित ऊर्जितः सजलत्वात् सबलः पयोवाहो मेघो येन सः, पुनः, अंह्निघातेन आनमत् क्ष्मापीठं यस्मात् सः, पुनः, मचुरं क्षरच्च यद् मदजलं तेन व्यालोलं गल्लस्थलं यस्य सः, पार्श्व इति० ॥ १५॥ हुङ्कारैर्बधिरीकृताखिलजगत्पादप्रहारोत्पतपांसूत्पूरतिरोहिताम्बरतला नानास्त्रविस्तारिणी । यन्नामस्मरणाद् मलिम्लुचचमूर्वायोरिवाऽब्दो मुधा पार्श्वः पुण्यपयोजिनीदिनमणिश्चिन्तामणिः पातु वः॥ १६॥ यन्नामस्मरणाद् मलिम्लुच चमूस्तस्कर सेना, वायोः अब्द इव सुधा भवेदिति योगः कीदृशी, हुङ्कारैर्वधिरीकृतं अखिलं जगद्येति सा तथा पादप्रहारैरुत्पतत्पांमृत्पुरस्तेन तिरोहितं अम्वरतलं यया सा, तथा नानास्त्रविस्तारिणीति, पार्श्व इति० ॥ १६ ॥ उद्दण्डद्विपगण्डमुण्डनिपतत्खण्डप्रचण्डोच्छलत्स्रोतःशोणितपङ्किलक्षितितले भ्राम्यहिङ्गाकुले । यन्नाम स्मरतां सतां तनुमतां युद्धे जयो जायते A
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy