SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रथमः समः। आमोदिनीषु पतयालुषडंहिपङ्क्ति र्धम्मिल्लतः पतितपुष्पपरम्परासु ॥३६॥ यस्यां पुर्याम् , अब्जबन्धोः सूर्यस्योदये जायमाने सति, पतिधाम्नि स्वभरीभवने, आशु शीघ्रं, गन्तुं मनो यासां ताः; निजगृहं गन्तुकामा या अभिसारिकाः कामक्रीडाकृते स्वेष्टापरपुरुषसङ्केतकारिकाः। यदाहुः पूर्वाचार्यपादाः "हित्वा लज्जाभये श्लिष्टा मदेन मदनेन वा । याऽभिसारयते कान्तं सा भवेदभिसारिका "॥१॥ अनारोऽपि यथा "मदनाकुलिताऽतिनिखपा कृतभूषा निशि गूढचारिणी । सुरताय परालये व्रजेत् कवयस्तामभिसारिकां विदुः" ॥२॥ इत्युक्तलक्षणानामभिसारिकाणाम् ; व्यभिचारिणीनां स्त्रीणामिति यावत् । पम्मिल्लतः संयतकेशकलापतः, पतिता याः पुष्पपरम्पराः प्रसूनश्रेण्यस्तासु । किं० आमोदिनीषु, 'आमोदो गन्धहर्षयोः' इत्यनेकार्यत्वाद् गन्धवतीषु हर्षवतीषु चेति। पतयालुपडहिपङ्क्तिः पतनशीला भृङ्गालि, वर्त्म मार्ग, न्यनक्ति प्रकटयति; लोकानां ज्ञापयतीति गम्यम् ॥३६॥ राकासु शुभ्रतरभूरिमहेभ्यसौध वीथीं व्यनक्ति पुरि यत्र महोज्ज्वलासु । प्रोद्यत्प्रभापटलपेशलमूर्तिजाल जालोच्छलच्छविगृहं गृहरत्नवृन्दम् ॥३७॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy