SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ६९४ विजयप्रशस्त्याम् । हीरहीरविजयाभिधसूरिसिंहश्रीपट्टभृद्विजयसेनमहामुनी दोः, इयं विजयप्रशस्तिनाम्नी सौभाग्यमयी शास्त्रपद्धतिः, चकोरकाणां शशिकलेव, सतां पण्डितानां सज्जनानां वा, चेतो मुदितं हर्षितं करोत्वित्याशीः ॥ ६८॥ . पुनरप्याशिषं दिशति श्रीसूरिराड्विजयसेनमुनीन्द्रचन्द्र माहात्म्यवर्णनविधाननिधानभूमिः । नानामनोज्ञतरतुङ्गरसाभिरामा .. भूयादियं विजयिनी विजयप्रशस्तिः ॥६९॥ श्रिया युक्तो यः मूरिराट् विजयसेन नीन्द्रचन्द्रस्तस्य यन्पाहात्म्यवर्णनविधानं तदेव निधानं तस्य भूमिरिव भूमिः, इयं विजयप्रशस्तिः, कीदृशी, नानाप्रकाराः पुनर्मनोज्ञतरारम्यतमाः, पुनः, तुझा महान्तो ये रसाः, ग्रन्थपक्षे शृङ्गारादयः, भूमिपक्षे रसा मधुरादयः, तैः अभिरामा चार्वी नानामनोज्ञतरतुङ्गरसाऽभिरामा, विजदिनी विजयवती, भूयात् सर्वोत्कर्षेण वर्ततामिति।।६९॥ अथ विशेषादाशीर्वादमाह-- . यावद् व्योमपथाध्वगौ विचरतः श्रीपुष्पदन्ताविमौ यावद् वारिधिरन्तरीपकमलां धत्ते धरित्र्याः पुनः । यावत् स्वर्गसदां गिरिश्च भुवनाम्भोजे भवेत् कर्णिका तावत् काव्यमिदं सदा विजयतां कुर्वत सतां मङ्गलम् ।७०। यावत्कालम् , इमौ पुष्पदन्तौ सूर्याचन्द्रमसौ, किं०,व्योमपथाध्वगौ नभःपथपथिको, विचरतो भ्राम्यत इति, पुनः, यावद् वारिधिः समुद्रः, धरित्र्याः पृथ्व्याः , अन्तरीपकमलां निवसन-श्रियं, धत्ते धरति, च पुनः, यावत् स्वर्गसदां देवानां, गिरिराद्
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy