________________
चतुर्थः सर्गः ।
१८५
पुनरद्भुतश्रिया सनाथस्य श्रीनेमिनाथस्य चैत्ये प्रासादे, नगरमध्यवासस्थ इति शेषः, पुनर्गच्छ्वासिनां साधूनां संम तिमनुझां, आदाय लात्वा, यतस्तदानीं तथाविधमध्यस्थगीतार्थानुज्ञापूर्वकमेव वाचकादिपदप्रदानमासीदिति महत्तेः तेन साधूनां संमतिमादायेत्युक्तमिति तात्पर्यम् ।। १२२ ।। उपाध्यायपदेऽस्थापि हीरहर्षः स सूरिभिः । स्थानेऽङ्कुर इवाचार्यपदर्द्धिवरवीरुधः ॥ १२३ ॥
स ही हर्षपण्डितः सूरिभिरुपाध्यायपदेऽस्थापि स्थापितः, आचार्यपदर्द्धिरेव वरा वीरुद् वल्लिस्तस्याः, स्थाने आलवाले, अङ्कर इवेत्युत्प्रेक्षा । चतुर्भिरन्त्यक्रियं कलापकं व्याख्यातम् ॥ १२३ ॥
शुशुभे श्रीतपागच्छस्तेन वाचकचक्रिणा । काननं कुञ्जरेणेव दानवारिविराजिना ॥ १२४ ॥
तेन वाचकेषु चक्रिणा चक्रवर्तिना, श्रीतपागच्छः शुशुभेशोभिष्ट । दृष्टान्तोऽत्र - यथा दानवारिविराजिना वाचकपक्षे दानवारिर्नारायणस्तद्वद्विराजिना, सौभाग्येनेति शेषः, कुञ्जरपक्षे दानवारिणा मदजलेन विराजिना मनोज्ञेन कुञ्जरेण, काननं वनमिति ।। १२४ ॥
आधिपत्यं गणस्याऽस्य भविता दीप्तिमत्तमम् । श्रीहीरहर्षोपाध्याये वज्रिणीव दिवः सदा ॥ १२५ ॥
अस्य गणस्य तपागच्छस्य, आधिपत्यं साम्राज्यं, श्रीहीरहर्षोपाध्याये वज्रिण शक्रे, दिवः स्वर्गस्येव, दीप्तिमत्तमं देदीप्यमानं भविता भावि ।। १२५ ।।
ध्यात्वेति सूरयः सूरिमन्त्राराधनमुत्तमम् ।
२७