SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८४ विजयप्रशस्त्याम् । आशा वाञ्छा सैव वल्लिस्तस्या विस्तारे वारिदानां उपाध्यायपदं प्रदीयतां, भवद्भिरिति शेषः ॥ ११८ ॥ पुण्याहूतनिजाकूताऽव्यभिचारिणि चारुणि। - सङ्घस्य वचनेऽमुष्मिन् सूरेश्चित्तममोदत ॥ ११९ ॥ पुण्येन आहूतं आकारितं पुण्याहूतं भाग्यलभ्यं यनिज आकृतं अभिप्रायस्तस्याऽव्यभिचारिणि अविसंवादिनि स्वाभिमायानुसारिणीति यावत् , पुनश्चारुणिं रम्ये, अमुष्मिन् सकस्य वचने सति, सूरेश्चित्तममोदत मुमुदे ॥ ११९ ॥ __ अथ चतुर्णा व्याख्यासंवत्सरेऽथ पृथ्वीध्रसुराध्वरसशीतगौ । माघे मास्यमृतज्योतिःपञ्चमे पञ्चमे तिथौ ॥१२०॥ अथाऽन्यदाऽप्येकवर्षानन्तरं, संवत्सरे, किं०, कुलाचलानामष्टसंख्यत्वात् पृथ्वीधाः पर्वता अष्टी, सुराध्या गगनं विन्दुः, रसाः षद्, शीतगुश्चन्द्रमा एकः; एतेऽङ्का वामतो मीलिताः १६०८ इति संख्याका यत्र तत्र वर्षे, पुनर्माघे मासि, पुनः अमृतज्योतिषा चन्द्रेण पञ्चमे रम्ये शुभ्र इति यावत् , पञ्चमे तिथौ ॥ १२० ॥ श्रीनारदपुरीनाम्नि पुरेऽत्युत्सवसुन्दरे । वरकाणाभिधानश्रीपार्श्वतीर्थेशसाक्षिकम् ॥ १२१ ॥ पुनः अत्युत्सवैः सुन्दरे नारदपुरीनाम्नि पुरे नगरे, पुनवरकाणाभिधानश्रीपार्वतीर्थेशस्य तदानीं तत्र स्थितस्य साक्षिकम् ॥ १२१॥ चैत्ये श्रीनेमिनाथस्य सनाथस्याऽद्भुतश्रिया। सम्यक् संमतिमादाय साधूनां गच्छवासिनाम्॥१२२॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy