SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । पट्टेऽस्य वासान् गुरुभिः सृजद्भिः । आजन्म जिष्णो रमयेव तेऽस्तु गच्छश्रिया सार्द्धमविप्रलम्भः ॥ २५ ॥ अस्याचार्यस्य, वासान् सृजद्भिः वासक्षेपं कुर्वद्भिर्गुरुभिः, किं०, एते वर्णा ललाटपट्टे लिखिता इति एते क इत्याह-- हे शिष्योत्तम ! ते तब, आजन्म आभवं, गच्छश्रिया सार्द्ध अविमलग्भोऽस्तु वियोगो मा भूयादिति, कयेव कस्येत्याह- जिष्णोर्विष्णोः, लक्ष्म्येवेति दृष्टान्तः ॥ २५ ॥ गुरोरनुज्ञामधिगम्य सम्यक् स्थितं तमागात् सकला गणर्द्धिः । २०६ वेगादपाचीपवनप्रपचं वसन्तलीलेव वनस्य मध्यम् ॥ २६ ॥ गुरोरनुश अधिगम्य प्राप्य, सम्यग् स्थितं तं सूरिं सकला गणर्द्धिर्गच्छसंपत्तिः, आगात् प्राप्तेति यथा वसन्तलीला अपाचीपवनमपञ्च दक्षिणानिलविस्तारं, अधिगम्य वनस्य मध्यं काननान्तरालं, वेगादागच्छतीति दृष्टान्तः ॥ २६॥ सुधर्मजम्बूप्रभवादिसूरि सिंहैर्धृता याऽस्य गणस्य धुर्वी । बहन्नयं तां सुमनः सुखाय स्वर्गाधिपत्यं मघवेव जज्ञे ॥ २७ ॥ याऽस्य गणस्य धुर्वी धूः, सुधर्मजम्बुप्रभवादिरिसिंहै:पूर्व घृतेति तां गणधुरं अयं वहन् मघवेव इन्द्र इव, स्वर्गाविपत्यं वहन् सुमनः सुखाय सुमनसां पण्डितानां एकत्र,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy