SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५२४ विजयप्रशस्त्याम् । अस्तमिते सति, तत्तेजाश्रीः, अन्यैरहता सती, हुताशं वह्नि, समेतीति ॥ ८१ ॥ गुरोरिताऽस्मिन् शुशुभेतरां श्री महस्विनी श्रीयुवराजि यूनि । किमत्र चित्रं वनिता नवीना विभाति यत् पुंसि वयस्थवर्ये ? ॥ ८२ ॥ अस्मिन् गुरौ श्रीयुवराजि, पुनः, यूनि, इता प्राप्ता, गुरोः श्रीमहस्विनी तेजस्वती, शुशुभेऽभात् , अत्रार्थे किं चित्रम् ? यतो नवीना वनिता वयःस्थवर्ये पुरुषे, प्राप्ता सती, विभात्येवेति।।८२।। निरस्य तं शोकमशेषमोको ___ मुदामुदासीनहृदां वरेण्यः। श्रियं बिभर्ति स्म समस्तपूर्व___ मुनीमघोनां महतीमघोनाम् ॥ ८३ ॥ तं शोकं अशेषं निरस्य निवार्य, अत एव मुदां हर्षाणां, ओको मन्दिरं, तथा, आसन्नशुनिदानत्वादुदासीनहृदां वरेण्यः सूरिः, समस्तपूर्वमुनीमघोनां निःशेषप्राच्यमुनीन्द्राणां, मुनिरिव मुनीशब्दोऽप्यस्ति, श्रियं विभर्ति स्म, कीदृशी, महतीं, तथा अधेन पापेन ऊनां अघोनां निष्पापामिति ॥ ८३ ॥ अनेन गुर्वी तपगच्छधूर्वी - तरविना श्रीगुरुणेव दधे । हरेस्तनूजो हरिरव यत् स्यात् सतां प्रसूते न हि विस्मयं तत् ॥ ८४ ॥ अनेन सरिणा, गुर्वी महीयसी, तपगच्छस्य धुरा श्रीगुरु हो।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy