________________
चतुर्दशः सर्गः ।
५२५
"
शेव तरखिना बलवता, दधे श्रीहीरसूरिणेव धृतेत्यर्थः तत् सतां विस्मयं न प्रसूते यद् यतः कारणात् हरेः सिंहस्य, तनूजो हरिः सिंह एव स्यादिति ॥ ८४ ॥ यमाप्य नेतारमहार्यवीर्य न गच्छलक्ष्मीरितरेच्छुरासीत् । भुवः सुतैच्छद् न पतिं यदन्यं विहाय रामं सतताऽनुकूलम् ॥ ८५ ॥
यं नेतारं स्वामिनं, आप्य प्राप्य, गच्छलक्ष्मीः इतरेच्छुर्नासीद् नापराभिलाषिणी जातेति कथमिति, यं कथं, अहार्य हर्तुमशक्यं वीर्यं बलं यस्येति तं ईदृशं पतिं त्यक्त्वा कथमपरमिच्छेदिति, उक्तमर्थमुपनयेन समर्थयति - यत् सतताऽनुकूलं रामं दाशरथिं पतिं विहाय त्यक्त्वा, भुवः सुता सीता, अन्यं नैच्छद् नावाञ्छदिति, युक्तोऽयमर्थो यत् अनन्यरमणीरते भर्तरि अनुकूले सति तद्भार्यापि नापरं वाञ्छति, तथा गच्छानुकूलमिममाचार्य प्राप्य गच्छ श्रीरप्यपरं न वाञ्छत्येवेत्यर्थः ॥ ८५ ॥
स्थितैतदसे श्रियमेत्यसौ धूमहीयसी मांसलतुङ्गवृत्ते ।
भगीरथांसेन विनेतरत्र
किमौचितीमञ्चति जहुकन्या ? ॥ ८६ ॥
एतस्य सूरेरंसे स्कन्धे, स्थिताऽसौ धूस्तपागणभारोद्धरणरूपा. धुरा, महीयसी महत्तरा, श्रियमेति, एतदं से कथं, मांसल व तुङ्गश्व वृत्तश्चेति मांसलतुङ्गचे; इदं युक्तमेव, यतो भगीरथाख्यनृपस्य सगरचक्रधरपौत्रस्य, अंसेन विना जहुकन्या गङ्गा, किं इतरत्राऽपरस्थाने, औचितीमुचितत्वमञ्चति गच्छति ? न गच्छतीत्यर्थः ॥८६॥