SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५२६ विजयप्रशस्त्याम् । अथ वसन्ततिलकाभिधानेन च्छन्दसा श्रीचरिराजराज्यं कविवर्णयति राज्ये विराजिकमले समभूद् मृषादृक्____ खद्योतपोतपटलं गतधाम कामम् । यस्योदयं श्रितवति द्युतिमालिनीव प्रोल्लासिभासि दलिताखिलतामसौघे ॥८७॥ यस्य गुरो राज्ये द्युतिमालिनीव सूर्य इव, उदयं श्रितवति उदिते सति, कीदृशे राज्ये सूर्ये च, विराजिनी कमला ज्ञानादिश्रीयत्र तत्र, पक्षे विराजि कमलं यत्र यस्मादिति वा, पुनः, प्रोल्लासिभासि दीप्रमहसि, पुनः दलितस्तामसः पापसंबन्धी, पक्षे ध्वान्तसंबन्धी ओयो येन तत्र, मृषादृशो मिथ्यादृश एव खद्यो. तपोतास्तेपां पटलं मण्डलं, गतधाम निस्तेजः, समभूत् , मिथ्यात्ववतां हीनता जातेत्यर्थः ॥ ८७ ॥ यद्राज्यवारिमुचि काममितेऽपि नित्य___ मौन्नत्यमत्र मुदितव्रतभृन्मयूरे । चित्रं वितीर्णकमलेऽप्यजडं यदासीद् विश्वं नितान्तपरितोषितविश्वविश्वे ॥८॥ अत्र क्षेत्रे, यद्राज्यवारिमुचि यत्साम्राज्यमेघे, कि०, औनत्यं नित्यं इतेऽपि, पुनः किं०, मुदिता व्रतभृतः साधव एव मयूरायस्मात् तस्मिन् , पुनः, वितीर्णा कमला येन, पक्षे कमलं जलं येन; तथापीदं चित्रमाश्चर्यं यद् विश्वं अजडं आसीद् न विद्यते जडो यस्मिन्निति, पक्षे डलयोरैक्याजलमिति, तथा च यद्राज्यमेघे पुनः किं०, परितोषिता विश्वविश्वा समस्तपृथ्वी येन तस्मिन्निति चित्रश्लेपालङ्कारः ।। ८८ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy