SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः। ५२७ सद्बुद्धिसिद्धतटिनीतुहिनाचले श्री. शालिन्यनीतिसहितेऽपि यदीयराज्ये।। चित्रं न कस्यचिदभूदनयप्रवृत्ति भूच्छायसंस्थितिरिवोष्णमयूखबिम्बे ॥ ८९ ॥ यदीयराज्ये, कीदृशे, सद्बुद्धिरेव सिद्धतटिनी गङ्गा तस्यां तुहिनाचले हिमाद्रौ, तदुत्पत्तिहेतुत्वादिति, पुनः, श्रीशालिनीति स्पष्टं, इदं चित्रं यत् अनीतिसहितेऽपि कस्यचिदनयप्रवृत्तिरन्यायस्य प्रवृत्तिर्नाऽभूत् , अनीतिसहिते हि अनयप्रवृत्तिः कथं न स्यात् ? अपि तु स्यादेवेति, परमत्र कोऽर्थः १ न ईतिः अनीतिः ईतेरभावस्तेन सहिते, यदीये राज्ये अनीत्यभावोऽप्यभूद्, यथा उष्णमयूखस्य रवेविम्बे, भूच्छायस्य तमसः संस्थितिर्न स्यादिति दृष्टान्तश्लेषशब्दच्छलालङ्कारा इति ॥ ८९ ॥ जाता जिता यदबला अमुनैष नस्तद् वेषोऽर्हति स्मितदृशां प्रविधाय वेषम् । यद्राज्य इत्यगुरदिव्यदृशः कुवादि वाताः परं विषयमुद्धतकामचारम् ॥९०॥ अमुना सूरिणा जिताः सन्तो वयं यद् अबला निर्बलाः स्त्रियश्च जाताः, तत् ततः, नोऽस्माकं, एप वक्ष्यमाणवेपोर्हति योग्यतामेति, इति हेतोः, स्मितदृशां स्त्रीणां, वेषं प्रविधाय यद्राज्ये कुवादिवाताः, किं०, अदिव्यदृशः असारमतयोऽसारदृशश्च, परं विषयं देशान्तरं, अगुः प्राप्ता इति, स्त्रीरूपा हि परं विषयं ब्रजन्त्येव, किं०, उद्धत उग्रः कामस्य चारः प्रचारो यस्मिन् । इति वीराद्भुतश्लेषाबलङ्कारसंकर इति ।। ९०॥ मा पश्यताद् यदितरः पितरं विना मां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy