________________
५२८
विजयाशस्त्याम् । मत्वा वृषाश्रयममर्त्यपतेस्तनूजः । यद्राज्यमात्मजनकप्रणयादिवैष
भेजेऽनिशं सुमनसां सुखमूलमुच्चैः ॥ ९१ ॥ पितरं विना इतरः कोऽपि मां मा पश्यतादित्यतोऽमर्त्यपतेस्तनूजो जयनामा, यद्राज्यपक्षे वृपः पुण्यं, पक्षे वृषा शकइति, यद्राज्यं वृषाश्रयं मत्वा आत्मजनकस्य प्रणयादिव भेजे, यद्राज्ये स्वजनकप्रणयिता कथमित्याह-यद्राज्यं कि०, सुमनसां सतां, पक्षे देवानां सुखस्य मूलम् । उत्प्रेक्षाश्लेषालङ्कारः ॥९१॥ यो हारतां दिगबलाहृदयेष्ववाप
श्यामात्मरन्ध्ररहितोऽपि गुणीह भूत्वा । नव्यो विभाति शुचिमौक्तिकराशिरुच्चै
राज्यं यदीयमतिशायिमहस्समूहम् ॥ ९२ ॥ अतिशायिमहस्समूहं यद्राज्यं, नव्यः शुचिमौक्तिकराशिर्विभाति, नव्यत्वमेव भावयति-यः श्यामात्म यद् रन्ध्र छिद्रं तद्रहितोऽपि, गुणी भूत्वा दिश एवाऽवला दिगवलास्तासां हृदयेषु, हारतामवाप, परो हि मौक्तिकराशिः श्यामरन्ध्रसहितो गुणी, हारपक्षे गुणस्तन्तुः, राज्यपक्षे गुणा ज्ञानादयस्तद्वान् भूत्वा हारत्वं प्राप्नोति नायं तथेति नव्यत्वम्, राज्यस्य हारोपमा तु चतुर्दिशां शोभाहेतुत्वादिति ॥ ९२ ॥ व्यापादनग्रहणभीतिदुरुक्तिहेतु
रत्रापि यच्छबरधीवरभीरुसङ्गः। यद्राज्य इत्यसुखमस्ति वनेचरले
ऽप्युच्चैः कुवादिनिवहस्य मदावहस्य ॥१३॥