SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् | श्रीपूज्यपादैः स महोत्सवेन ॥ १० ॥ लुम्पाकपक्षक्षितिसेके लुङ्काख्यकुमतमेदिनीसेचने, मेघस्तद्वृद्धिकत्वादिति इदं विशेषणं प्रागवस्थामाश्रित्योक्तम् । तैः स्वैनिजैर्मुनिभिर्वृतः श्रीमेघजनामर्षिः महोत्सवेन शाहिश्रीअकब्बर सुलतानजलालदीमदत्तातोद्यवादनादिनोत्सवेन श्री पूज्यैः प्राथमकल्पिकत्वे नवीन शैक्षत्वे संस्थापित इति ॥ १० ॥ लुम्पाकपक्षाधिपतिः सुमेधाः स मेघजीनामऋषिर्विनीतः । ३०० पूज्यांह्निपाथोरुहपर्युपास्ति परायणो भृङ्ग इवाऽजनिष्ट ॥ ११ ॥ स मेघजनामऋषिः, किं०, लुम्पाकपक्षाधिपतिरपि पुनः सुमेधाः धीमान् पुनर्विनीतः सन् भृङ्ग इव भ्रमर इव पूज्यांहिपाथोरुहपर्युपास्तौ गुरुचरणकमलसेवने, परायणस्तत्परोऽजनिष्ट जातवानिति महाद्भुतं सर्वेषामिति शेषः ॥ १.१ ॥ विहृत्य तस्मात् पुरतो वृतास्तैस्तैः साधुभिः साघुघुरन्धरास्ते । हंसा इवाब्जैः सर उत्सवौषैः पूर्ण पुरं पत्तनमाप्तवन्तः ॥ १२ ॥ तस्मात् पुरतो राजनगरात् विहृत्य तैस्तैराचार्योपाध्यायपण्डितप्रधानैः पुनर्नवदीक्षितैस्तैः साधुभिर्व्वतास्ते साधुधुरन्धरा गुरवः, क्रमेण पचनं पुरं अणहिलपाटकनामकं नगरं, किं०, पूर्ण, कैः, उत्सवौधैर्महसमूहैः, अब्जैः कमलैः पूर्ण सरस्तटाकं हंसा इव आप्तवन्तः माता इति ॥ १२ ॥ "
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy