SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। २९९ दृष्टान्तमाह-यथा वायोर्वर्त्य गगनमिव तमसा विपक्षे ध्वान्तशत्रौ, सूर्ये, सतीति शेषः ॥७॥ महोत्सवोल्लासविलासहर्म्य महम्मदावादपुरं प्रधानम्। श्रीपूज्यपादाः पुनरीयिवांसो मनो मुनीनामिव मैत्र्यभावाः ॥ ८॥ अहम्मदावादपुरं, किं०, महोत्सवोल्लासानां विलासहर्म्य केलीगृहं, पुनः, श्रीपूज्यपादा ईयिवांसः समागताः, मुनीनां मन इव मैन्यभावाः साम्याध्यवसाया इति दृष्टान्तः । अर्थतो युग्पव्याख्या ॥ ८॥ लुम्पाकपक्षं प्रविमुच्य रुच्य चेताः सचेताः प्रसभं प्रचेताः।। स मेघजीः खैर्यतिभिः परीतः सूरीननूचानयुताननंसीत् ॥ ९॥ तत्रागमनादनन्तरं स मेघजीनामर्षिः खैर्यतिभिः पण्डितैः सप्तविंशतिसंख्यैः, परीतः सन् लुम्पाकपक्षं लुकाख्यमतं, प्रविमुच्य अनूचानयुतान् श्रीविजयसेनसूरिपरिवृतान्, सूरीन् श्रीहीरविजयसूरीन् , अनंसीचमति स्मेति । स किं०, रुच्यं चारु चेतो यस्य सः, पुनः किं०, सचेताः सहृदयः, पुनः किं०, प्रचेता पहष्टात्मेति ॥९॥ लुम्पाकपक्षक्षितिसेकमेघः - श्रीमेघजीस्तैर्मुनिभिर्वृतः स्वैः। संस्थापितः प्राथमकल्पिकत्वे
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy