SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। चक्रुश्चतुर्मासकमाप्तमुख्या __ अस्मिन् पुरे पत्तननाम्नि पूज्याः। तेषामथो पारणके गुरूणां ___ हृदुत्सुकं वन्दनकोत्सवेऽभूत् ॥ १३ ॥ आप्तेषु मुख्यास्ते पूज्याः, अस्मिन् पुरे पत्तने, चतुर्मास चक्रुरित्यन्वयः। अथ चतुर्मासकपारणके तेषां गुरूणां, हृन्मनः, वन्दनकोत्सवे निजपट्टभृत्पादवन्दनद्वयप्रदानोत्सवे, उत्सुकं . अमूदिति ॥ १३॥ ___अष्टभित्तैर्वन्दनोत्सवं वर्णयन्ति वर्षे नभःपावकभूपसंख्ये _मासे सहस्ये च तिथौ चतुर्थ्याम् । सितेतरायां सुखवृद्धिका लग्ने मनोज्ञेऽहनि दोषमुक्ते ॥ १४ ॥ ___वर्षे, किं०, नभो बिन्दुःशून्यं, पावका अग्नयः त्रयः, भूपाः षोडश, एते अङ्का वामगत्या मीलिता यत्र तत्र १६३० प्रमाणे संवत्सरे, पुनासे सहस्ये पौषे मासे, च पुनः, चतुर्थ्या तिथौ, किं०, सितेतरायां श्यामायां, पुनः किं०, सुखदृद्धिका, पुनः, लग्ने राश्युदये मनोज्ञे सति, पुनरहनि दिने, दोषमुक्त निर्दोषे सति ॥ १४ ॥ . खजन्मभूजन्मफलाभिलाषा . दुल्लेखिहल्लेखिनि लेखवन्ये । : नैपुण्यपुण्यात्मनि साधुसाध्वी सार्थे समेते परितः प्रभूते ॥ १५॥ .
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy