SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ विजयाशस्त्याम् । पुनः, परितः सर्वतः, प्रभूते बहो, साधुसाध्वीसार्थे समते मिलिते सति, किं०, स्वजन्म एव भूजन्मा पादपस्तस्य फलाभिलाषात् फलमाप्तिमनोरथात् , उल्लेखी उत्कृष्टो यो हल्लेख औत्सुक्यं यस्य तस्मिन् , पुनः किं०, लेखानां देवानां वन्ये वन्दनीये, पुनः किं०, नैपुण्यपुण्यात्मनि प्रावीण्यपवित्रात्मके, इति साधुसाध्वीसार्थविशेषणानि ॥ १५ ॥ निःशेषनेपथ्यसनाथकायैः प्रोत्फुल्लपाथोरुहपेशलास्यैः । भूयिष्ठदेशागतभव्यलोक सुरैः पुरेऽत्र त्रिदिवायमाने ॥ १६ ॥ पुनः अस्मिन् पुरे पत्तने त्रिदिवायमाने सति, कैरित्याहभूयिष्ठा बहवो ये देशा मरुस्थलीमालवमेदपाटसौराष्ट्रकच्छकुङ्कणादयस्तेभ्य आगता ये भव्यलोकास्त एव सुरा देवास्तैः, स्वर्गसमाने सति, तैः किं०, निःशेषनेपथ्यैः स्वस्वसमस्तवषैः, सनाथः संयुक्तः कायो येषां तैः, पुनः कि०, प्रोत्फुल्लपायोरुहाणीव पेशलानि गुरुमुखवीक्षणात् कमनीयानि आस्यानि येषां तैरिति ॥ १६ ॥ सकर्णकर्णोत्सवदानद: गीतैः सुगान्धर्वगणप्रणीतैः। मत्ताप्रमत्तखरकोकिलस्य ___ पुरे श्रियां गच्छति काननस्य ॥ १७ ॥ पुनः, पत्तने पुरे, गान्धर्वगणप्रणीतैर्गायनवजोक्तगीतेः, पुनः कि०, सकर्णकर्णोत्सवदक्षैः चतुरनरश्रोत्रोत्सवकारिभिः, काननस्य वनस्य, श्रियं गच्छति बनशोभा यति, किंलक्ष
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy