________________
।
प्रथमः सर्गः। स्मरविनोदशालीति । अत्र पुरुषोत्तमपदेन धर्मः सूचितः । अर्थकामौ तु व्यक्तावेवेति पुरुषार्थत्रयावस्थितिः सूचितेति रहस्यम् ।।४५॥
अथ नारदपुरीनगरीवर्णनादनन्तरं तनिवासिनं गुरुपितरं कमाभिधानश्रेष्ठिनं त्रयोदशभिर्वृत्तैर्वर्णयति । तथाहितस्यां पुरि प्रचुरपुण्यमना मनस्वि
मुख्यः सुसौख्यसदनं सदनन्तबुद्धिः। जज्ञेऽहदंहिकमलालिसमः कमाख्यः
श्रेष्ठी सुदर्शन इवामलशीललीलः ॥४६॥ तस्यां पुरि नारदपुरीपुर्या, कमाख्यः श्रेष्ठी जले। कीदृशः, प्रचुरपुण्यमनाःप्रचुरे भूयसि पुण्ये धर्मे, अथवा प्रचुरं भूरि पुण्यं पवित्रं मनो यस्य सः । पुनः कि. मनखिनः सहृदयास्तेषु मुख्यः। पुनः किं० सुसौख्यसदनं शोभनसुखगृहम् । पुनः किं. 'सदियमाने सत्वे च प्रशस्तार्चितसाधुषु' इत्यनेकार्यवचनात् सती विद्यमाना सत्या या प्रशस्ता वाचिंता वा साध्वी वा अनन्ता निरवधिबुद्धिर्यस्य सः।पुनः किं० अईन्तो देवाधिदेवाः, तेषामहिकमले चरणनलिने, अलिसमो भ्रमरतुल्यः। पुनः किं० सुदर्शनो नाम यो जगदतिशायिब्रह्मव्रतवान् महान् श्रेष्ठी तद्वदमला निर्मला, शीललीला ब्रह्मकेलियस्य सः । अत्रान्तिमविशेषणयेन तस्मिन् श्रेष्ठिनि शुद्धसम्यक्त्वशीलशालित्वमसूचीति तत्त्वम् ॥४६॥