________________
५९८ विजयप्रशस्त्याम् । प्रामोदि सर्वोऽप्यथ पारिजात
संतानकाभ्यामिव सङ्घलोकः।। ६१ ॥ श्रीमल्लनाम्नाऽऽचार्यपदोत्सवकारिणा, तथा कीकाभिधठक्कु. रेण च, किं०, इभ्यपुरन्दरेण धनीन्द्रेण, सर्वोऽपि सङ्घलोकः पारिजातसंतानकाभ्यामिव कल्पद्रुमाभ्यामिव, पामोदि संतुप्टिभाक् कृत इति ॥ ६१ ॥
तत्रैव पुर्या चतुरोऽपि मासान्
थिला तदन्ते यतिराजहंसः । श्रीपत्तनं सत्कमलाभिरामं
विश्वम्भरालोकमिवाजगाम ॥ ६२ ॥ तत्रैव तस्यामेव पुर्या स्तम्भतीर्थनगर्या, चतुरोऽपि मासान् स्थित्वा चतुर्मासीं विधाय, तदन्ते वर्षान्ते, स यतिराजहंसः विश्वम्भरालोकं भूमिलोकमित्र, श्रीपत्तनं अणहिल्लपाटकनगरं, कि०, सत्कमलाभिरामं एकत्र कमलैः, अन्यत्र कमलयाभिरामं, आजगामाऽऽगत इति ।। ६२ ।। तत्राऽथ गच्छाधिपतिं खगच्छा
नुज्ञामनूचानवराय दित्सुम् । ज्ञात्वा महेभ्योऽथ सहस्रवीरः
परीक्षकः स्वीयहृदीति दध्यौ ॥ ६३ ॥ अथ तत्र पत्तने, चतुर्म.सकान्ते गच्छाधिपतिं परमगुरु, कि०, स्वगच्छाऽनुज्ञां वन्दनकद्वयप्रदानपूर्वकनन्दीरूपां, अनूचानवराय श्रीविजयदेवसूरये, दित्सुं दातुमनसं, ज्ञात्वा, अथ तत्रत्यः सहस्रवीरः परीक्षकः प०सहसवीरनामा श्राद्धः स्वकीयहदि निजे मनसि, इति वक्ष्यमाणं, दथ्यो चिन्तयामासेति ॥६३॥