SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः। - ५९७ वृन्दारकाणामिव वृन्दमब्धिः ॥ ५८ ॥ एष श्रेष्ठी किं०, अघाभिघाती पापापहारी, समस्तं सङ्घ चतुर्विधमपि, वरै पैः यथार्हमहाध्य वस्त्रैः, संतोषयामास; इव यथा, रत्नैः कि०, जगतां यत्कौतुकं तत्र क्लृप्तो यत्नो यैस्तैचतुर्दशरत्नलक्ष्मीकौस्तुभपारिजातधन्वन्तरिचन्द्रोच्चैःश्रवस्तुरङ्गमै- . रावणवारणरम्भाप्रभृतिभिः, वृन्दारकाणां देवानां, वृन्द, अब्धिरिवेति दृष्टान्तः ॥ ५८ ॥ सङ्घाग्रहात् श्रीतपगच्छधुर्यैः पूज्यैरुपाध्यायपदं प्रदत्तम् । मेघादिकानां विजयोत्तराणां मेधाविनां तत्र महे महीयः ॥ ५९ ॥. . तत्र महे श्रीतपगच्छधुर्यैः पूज्यैः परमगुरुभिः, सङ्घाग्रहात् , मेघादिकानां पुनः, विजयोत्तराणां मेधाविनां पण्डितानां मेघविजयानां विबुधानां, उपाध्यायपदं प्रदत्तमिति ॥ ५९ ।। चक्रेऽथ कीकाभिधठक्कुरस्य प्रौढा प्रतिष्ठा महता महेन । श्रीसूरिसिंहैविजयादिराजे धीमत्युपाध्यायपदं ददे च ॥ ६० ॥ अथ तत्पट्टोत्सवानन्तरं सप्तमीदिवसे महता वृहता, महेनो. त्सवेन, कीकाभिधठक कुरस्य गृहे प्रौढा प्रतिष्ठाऽर्हतामिति चक्रे कृता, च पुनः, तस्यां प्रतिष्ठायां विजयादिराजे धीमति विजयराजविबुधे, उपाध्यायपदं श्रीमूरिसिंहदेदे दत्तमिति ।। ६०॥ श्रीमल्लनाम्नेभ्यपुरन्दरेण तथैव कीकाभिधठक्कुरण ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy