________________
द्वितीयः सर्गः ।
अथ द्वाविंशत्या वृत्तैर्जयसिंहकुमारस्य बालचापल्यपुष्टितुष्टिचेष्टापांशुक्रीडादिकं कविर्वर्णयति —
स मातुरुत्सङ्गमभङ्गरङ्गवृत्तेर्दुकूलाञ्चलशालिलीलः । विभूषयन् मूर्त इव प्रमोदः कदाचिदत्यद्भुतमूर्त्तिरस्थात् ॥ ५३ ॥
८५
स बालः कदाचिदिति कस्मिंश्चित्समये, अभङ्गरगे वृत्तिः प्रवृत्तिर्यस्यास्तस्याः, मातुः कोडिमदेव्याः, उत्सङ्गमङ्क, विभूषयन्नस्थात् तस्थौ । स किं० दुकूलाञ्चलेन शालिनी शोभमाना लीला केलिर्यस्य सः, अत एव पुनः किं० अत्यद्भुताऽत्याश्चर्यकारिणी मूर्त्तिर्यस्य सः । इवोत्प्रेक्ष्यते - मातुर्मुर्त्तो मूर्त्तिमान् प्रमोदोहर्ष इति ॥ ५३ ॥
स चारुचन्द्रोदयके दुकूलनिचोलकः कोमलतूलिकायाम् ।
रेमे गुहायामिव सिंहशावः
श्रीपेशले पालनके कदाचित् ॥५४॥
स बालः, किं० दुकूलस्य निचोलः प्रच्छदपटो यस्य स दुकूलनिचोलकः, कदाचित् श्रिया शोभया, पेशले मनोहरे, पालनके, पुनः किं० चारुचन्द्रोदयके रम्यविताने रेमेऽरमत । कस्यामित्याह - कोमलतूलिकायां सुकुमालतूलशय्यायाम् ; दृष्टान्तोऽत्रइव यथा, गुहायां गिरिकन्दरायां, सिंहस्य शावो बालक इति ॥ ५४ ॥
विस्मेरपाथोरुहपेशलास्यः सचक्रचेतः प्रणयप्रणेता ।