SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ दतीयः सर्गः । भिधानमाचार्यमहार्यधैर्यम् ॥ ४४ ॥ कल्पांड्रिपस्य कल्पपादपस्य अङ्कुरमिव, अत्यतुच्छच्छाये अतिसम्पूर्णशोभं, पुनः किं कुर्वाणं, महानन्दफलं मोक्षफलं ददानं, पक्षे अत्त्यतुच्छा छाया नातपरूपा यत्र तं, पुनः, महानन्दो महान् प्रमोदो यस्मात् तद् महानन्दं, महानन्दं च तत् फलं चेति कर्मधारये महानन्दफलम्, ददानमित्यत्र प्रयोज्यम्, खे पट्टे विजयादिदानाभिधानं आचार्य श्रीविजयदानमूर्ति, संस्थाप्य निवेश्य, किं०, अहार्ये हर्तुमशक्यं धैर्ये यस्य तमहार्यधैर्यमिति ॥ ४४ ॥ वर्षे रसाङ्केषुहिमांशुसङ्ख्ये समाधिभाजः शमिसिन्धुरास्ते । भूमेरलंचकुरमर्त्यलोकं १२७ द्वीपात् परं द्वीपमिवांशुमन्तः ॥ ४५ ॥ रसाः षद्, अड्डा नव, इषवः पञ्च, हिमांशुः एकवेत्येषां बामतो मिलितानां पञ्चदशशतोत्तरषण्णवतिरूपा १५९६ सङ्ख्या यत्र तत्र रसाङ्केषुहिमांशुसङ्घये, वर्षे, समाधिभाजः शुभध्यानवन्तः, ते शमिसिन्धुरा मुनिकुञ्जराः श्रीआनन्दविमलसूरयः, भूमेर्मनुष्यलोकाद्, अमर्त्यलोकं देवलोकं, अलंचक्रुर्नवभिरुपवासैरहम्मदाबादद्रङ्गपार्श्ववर्त्तिनि निजामपुरे चेति शेषः । दृष्टान्तो यथा, द्वीपात् परमन्यं द्वीपं अंशुमन्तः सूर्या इवेति ॥ ४५ ॥ युग्मव्याख्या ॥ सांप्रतमवसरसङ्गतान् पूज्यपट्टमतिष्ठितान् श्रीविजयदानस्रीनुपश्लोकयति कविः— गङ्गासुधाम्भोषिसुता यदंद्वि १९
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy