________________
१६६
विजयप्रशस्त्याम् ।
पूर्णिमेव ऐन्दवं चान्द्रं, विम्बं तथा सा सुतममृत, कीदृशं, एकत्र कलाचन्द्रकलाः प्रतीतास्तेषां केलेलीलायाः कुलं गृहं, अन्यत्र कला लेख्यादिकास्तत्केलिकुलः पुनरेकत्र कुवलयानां नीलोत्पलानां प्रियं बल्लभं, अन्यत्र कुवलयस्य भूवलयस्य प्रियमिति युग्मव्याख्या || ४७ ॥ तदाऽभूद्दीपकोद्योतस्तिरस्तस्य तनुत्विषा । यत्तारातेजसां स्तोमः किं स्यादभ्युद्गते रौ ? ॥४८॥
तदा तज्जन्मक्षणे, तस्य बालस्य, तनुत्विषा तच्छरीरतेजसा, दीपकोद्योतस्तिरोऽभूत् पलायितः, यद्धेतोः, तारातेजसां स्तोमः समूहः, अभ्युद्गते रवौ किं स्याद् ? अपि तु नेति ॥४८॥ अनुकूलं मुदां मूलं श्रुत्वा जन्माऽङ्गजन्मनः । श्रेष्ठ्य मोदिष्ट सः स्पष्टविष्टपैश्वर्यभागिव ॥ ४९ ॥
अङ्गजन्मनः पुत्रस्य, जन्म, किं०, मुदां प्रमोदानां, अनुकूलं मूलं श्रुत्वा सः श्रेष्ठी अमोदिष्ट मुमुदे स्पष्टविष्टपैश्वर्यभाक् स्फुटं जगदाधिपत्यभृत् पुमान्, इवेति उत्प्रेक्षार्थे दृष्टान्तार्थे
वा ।। ४९ ।।
अमन्दानन्दकन्दस्य स्थानस्योल्लासवीरुधः । अत्यर्थसुभगस्याङ्गजन्मनो जन्मशंसिनाम् ॥ ५० ॥
अमन्दः अनल्पो यः आनन्दस्तस्य कन्द इव कन्दस्तद्धेतोः परमानन्दहेतोरिति यावत् पुनः किं०, उल्लासवीरुधः हृल्लेखवल्लेः, लेखवलें, स्थानस्य, पुनः किं०, अत्यर्थं गाढं सुभगस्य सर्वजनेष्टस्येति यावत् अङ्गजन्मनः जन्मशंसिनां पुत्रोत्पत्ते निंवेदकानाम् ।। ५० ।।
"
यच्छन् सोऽतुच्छधर्वर्द्धापनिका नान्तरं व्यधात् ।