SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। श्रीसंदर्भस्य गर्भस्याऽनुभावात्तस्य दोहदाः। बभूवुः सुभगास्तस्याः शस्याभ्युदयहेतवः ॥ ४४ ॥ श्रियो लक्ष्म्याः शोभाया वा संदर्भस्य गुम्फस्य, तस्य गर्भस्य, अनुभावात् तस्याः सुभगा दोहदा बभूवुः, किं०, शस्यः श्रेयान् अभ्युदय उनतिस्तद्धेतवः ॥४४॥ जननी जननीतिज्ञा सद्यः सम्पूर्णदोहदा।। प्रमोदं प्राप सा प्राप्तवर्णसिद्धिरिवाऽधिकम् ॥४५॥ ___सा जननी, किं०, जननीतिं जानातीति सा, पुनः कि०, सम्पूर्णानि दोहदानि यस्याः सा, प्रमोद प्राप्ता, प्राप्तस्वर्णसिदिर्यथेति दृष्टान्तः ॥ ४५ ॥ अथो वर्षे शक्तिसिद्धिशिलीमुखसितत्विषि। मासे सहसि शीतोस्राऽनवमे नवमे तिथौ ॥ ४६ ॥ अथेति नवमास्यां व्यतिक्रान्तायाम् , शक्तयः प्रभुत्वोत्साहमन्त्रजास्तिस्रः, सिद्धयोऽष्टौ, शिलीमुखा बाणाः पत्र, सितत्विद् शशी एकः, एतेषां वामगतिगणितानां १५८३ इति संख्या यसिंस्तस्मिन् वर्षे, पुनर्मासे सहसि मार्गशीर्षे मासे, पुनर्नवमे तिथौ नवमीवासरे, किं०, शीतोषेण चन्द्रेण, अनवमे मनोज्ञे धवले इति यावत् , तिथिशब्दस्य पुंस्त्रीलिङ्गत्वानवमे तिथावित्यदृष्टम् ॥ ४६॥ पुनः केत्याहशुभेऽहनि कलाकेलिकुलं कुवलयप्रियम् । पूर्णिमवैन्दवं बिम्ब साऽसूत सुतमुत्तमम् ॥ ४७॥ शुभे निर्दोषे, अहनि नवमरवियोगसद्भावात् श्लाघ्ये दिने,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy