SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भवेत् देशेषु, वर्षणाऽवप मेयः, तोयं पानी एनसेवार्थ चतुर्थः सर्गः। १६७ वर्षस्तोयधरस्तोयं किं भवेद्भेदभाग् भुवाम् ?॥५१॥ सोऽतुच्छधीमहामतिः, वर्दापनिका यच्छन् अन्तरं अल्पाऽनल्पप्रदानादिविशेष, न व्यधात् । एनमेवार्थ दृष्टान्तद्वारेण स्पष्टयति-तोयधरो मेघः, तोयं पानीयं, वर्षन् निम्नानिनादिप्रदेशेषु, वर्षणावर्षणादिना भुवां महीनां, भेदभाक् किं भवेत् ? अपि तु नेति युग्मव्याख्येयम् ॥ ५१॥ महान् महो महेभ्येन तेनाऽऽरब्धो मुदन्धिना। यजनौ तादृशां पुंसामुत्सवानामतुच्छता ॥ ५२ ॥ मुदब्धिना हर्षसमुद्रेण, तेन महेभ्येन महान् मह उत्सवः, आरब्ध आरेभे । यतः कारणात् , तादृशां पुंसां पुण्यवतां जनानां, जनौ जन्मनि, उत्सवानामतुच्छता स्यादेवेति ॥ ५२ ॥ मञ्जु मङ्गलगीतानि गीयन्ते स्म तदोकसि । न वसन्तोत्सवे किं स्युः कोकिलानां कलोक्तयः ॥५३॥ तदोकसि तद्गहे, मञ्जु मनोज्ञं, मङ्गलगीतानि गीयन्ते स्म, नगरलोकैरिति गम्यम् । वसन्तोत्सवे कोकिलानां कला मनोज्ञाउक्तयः पञ्चमकाकलीलक्षणाः, किं न स्युः अपि तु भवन्त्येवेति ॥ ५३॥ तेन दानान्यदीयन्ताऽर्थिनां सार्थे यथार्थनम् । प्राज्याः पाथोमुचेवोच्चैरापश्चातकपोतके ॥ ५४ ॥ तेन श्रेष्ठिना, अर्थिनां सार्थे मार्गणानां गणे, यथार्थनं यथायाचितं, दानानि अदीयन्त दत्तानि । दृष्टान्तोऽत्र-यथा पाथोमुचा मेघेन, चातकानां पोतके बालके बप्पीह इति यावत् , आपः पाथांसीति ॥ ५४ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy