________________
तृतीयः सर्गः 1.
मूर्त्या तो यस्य कुदृष्टिमोहः ॥ ५ ॥
तत्पट्टपूर्वाचले प्रभवस्वामिपट्टोदयाद्रौ हेलेः सूर्यस्येव हेला विलासो यस्य तं तत्पट्टपूर्वाचलहेलिहेलं, तं शय्यम्भवमूरिसिंहं स्तौम्यहमित्यन्वयः । तं कमित्याह - सभारत्नरुचैव प्रदीपप्रभयेव यथा ध्वान्तं तमः, तथा यस्य श्रीशय्यम्भवमूरेः, गृहस्थावस्थायां कुदृष्टिमोहो मिथ्यात्वमौढ्यं, अर्हतो मूर्त्या श्रीशान्तिजिनप्रतिमया, जहे हृत इति । एतदर्थानुवादकं निर्युक्तिकरश्रुतधरवाक्यं यथा - " सिज्जम्भवं गणहरं जिणपडिमादंसणेण पडिबुद्धं ” इत्युक्तत्वात्प्राच्योऽर्थः समर्थ इति ॥ ५ ॥
"
स तत्पदोपास्तिपटुः प्रभूतं भद्रं यशोभद्रगुरुः करोतु । पन्थानमाविष्कुरुते स्म शुद्धं यस्योष्णरश्मेरिव गौः सदर्था ॥ ६ ॥
·११७
तस्य शय्यम्भवस्य पदोपास्तौ पादसेवायां पटुर्निपुणस्तस्पदोपास्तिपटुः, स यशोभद्रगुरुः प्रभूतं भूरि, भद्रं श्रेयः, करोत्वित्यन्वयः । स क इत्याह-यस्य यशोभद्रसूरेः, गौर्वाणी, उष्ण(रश्मेः सूर्यस्य, गौरिव द्युतिरिव, शुद्धं पन्थानं ज्ञानदर्शनचारित्रात्मकं भावमार्ग; सूर्यद्युतिपक्षे तु, द्रव्यमार्ग आविष्कुरुते स्म कटीचक्रे । उभयत्र श्लेषद्वारेणैकं विशेषणमाह-सदर्थेति । मृरेगः पक्षे, सन् शोभनोऽर्थो वाच्यं यस्यां साः सूर्यस्य गोः पक्षे तु, सन्तोऽर्थाः प्रयोजनानि यस्याः सा सदर्था । सूर्यप्रकाशे हि देवार्चादिकाः क्रियाः क्रियन्ते लोकैरिति दिक् ॥ ६ ॥ भद्रानुभूतिः स दिताभिभूतिः सम्भूतनामा गुरुरस्तु भूत्यै ।
१६