________________
विजयप्रशस्त्याम् ।
गतेऽस्तमस्तान्ध्यभरप्रसारे । अथातिमात्रं कलिकालदोषागमात् तमो भूरि भविष्यतीह ॥ ७१ ॥
हे प्रभो ! प्रकटमभावे त्वयि प्रदीपे, अस्तङ्गते सति, कीदृशे, अस्त आन्ध्यभरप्रसारो येनेति, अथेह कलिकालदोपागमाद् भूरि तमो भविष्यतीति यतः मदीपे विध्याते हि तमोऽतिमात्रं प्रसरत्येवेति ॥ ७१ ॥
५२०
मुदं मम त्वन्मुखपुण्डरीकं
निपीय या दृग्भ्रमरी बभार ।
अनन्यवृत्तेस्तदभावतोऽस्या
मरौ मराल्या इव किं रतिः स्यात् ? ॥७२॥
"
हे गुरो ! मम या हग्भ्रमरी त्वन्मुखमेव पुण्डरीकं, निपीयेति पीत्वा मुदं बभार; अथाऽस्यास्तदभावतः किं रतिः स्यात् ? अपि तु न स्यादेवेत्यर्थः, यतोऽस्याः किं०, अनन्यवृत्तेर्न विद्य तेऽन्यस्मिन् अन्या वा वृत्तिर्यस्यास्तस्या इति । दृष्टान्तोऽत्र - यथा मरौ मरुस्थलीदेशे, मराल्या हंस्याः, किं रतिः स्यात् । इति ॥ ७२ ॥ चिरं शुचिर्या मम दृक् चकोर - यी पपौ त्वद्वदनेन्दुबिम्बम् ।
अथेयमस्याः प्रलयं प्रयाता
कथं पिपासा बहुकालजन्मा ? ॥ ७३ ॥ हे नाथ! या मम चोरद्वयी त्वद्वदनेन्दुबिम्बं चिरं पपौ, अथ त्वद्विर, अस्या इयं बहुकालजन्मा पिपासा, कथं मलयं याता सा पिपासा कथमुपशमिष्यति ? इति ॥ ७३ ॥