SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ६५३ एकोनविंशः सर्गः। गेहं श्रीमूरिसिंहः, स धरित्र्यां गूर्जरत्रायां, व्यहरद् विहार कृतवानिति ॥ ५३ ॥ अथाऽऽकरग्रामपुरादिपौर परम्पराभिः प्रचुरप्रकारैः । अभ्यय॑मानः किल काञ्चनादि पुष्पै शं लाभमुपार्जयंश्च ॥ ५४ ॥ अगण्यलावण्यवरेण्यपुण्य नैपुण्यपुण्यप्रणयप्रतीतः । मयूखमालीव मयूखजालै युगप्रधानातिशयैः परीतः ॥ ५५ ॥ मुक्ताफलौधैरिव पङ्कजाक्षी वक्षःस्थली मां पदपांसुपूरैः । विभूषयन् भूललनाललाम - श्रीस्तम्भतीर्थ गुरुराविवेश ॥ ५६ ॥ अथ शुभे दिने पत्तननगरात् चाणसमाख्यग्रामे सातिशयमहामहिमामयश्रीभटेवाभिधानपार्श्वनाथयात्रां विधाय क्र. मेण आकरग्रामपुरादीनां पौरपरम्पराभिर्जनश्रेणीभिः, प्रचुरप्रकारैर्बहुभेदैः, काश्चनादिपुष्पैः, आदिशब्दाद् रजतादिग्रहस्तेन काश्चनरजतपुष्पाभरणनाणकादिभिर्भूरिभिः प्रकारैः, अभ्यय॑मानः पूज्यमानः, च पुनः, लाभं भृशमुपार्जयन् स्वीकुर्वन्निति ॥५४॥ पुनः किं, अगण्यं गणनातीतं यल्लावण्यं सद्गतिसद्भा. षासद्वीक्षणलक्षणं यदुक्तम्-"सद्मनसनिरीक्षणसज्जल्पमिति वदन्ति लावण्यम्" इति, तेनाऽगण्पलावण्यं बहुलवणिमा, पुनः, वरेण्यं वरिष्ठं यत् पुण्यनैपुण्यं धर्मदक्षत्वं, पुनः, पुण्यः पवित्रः
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy