SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः। ४५५ तस्य श्रीगुरुविनेयस्य कलयाष्टासु स्थानेषु सावधानताकलितया दृष्टया सत्या, राजाऽकब्बरशाहिः, रञ्जितः सन् , समपर्पदः सकलसभायाः समक्षं, अस्मै मनीपिणे विबुधाय, खुशफेमेति विरुदं, ददौ दत्तवानिति ॥ १३५ ॥ रञ्जितराजेन्द्रलक्षणान्यथो दर्शयतिअथ शाहिप्रदत्तोद्यद्वाद्यवादनपूर्वकम् । सश्रीकैः श्रावकैः क्लप्तमहोत्सवपुरस्सरम् ॥ १३६ ॥ उपाश्रयमलञ्चके श्रीअनूचानचक्रभृत् । वैजयन्तमिव स्वर्गिस्वामी जयसुखाश्रयम् ॥ १३७ ॥ ___ शाहिना प्रदत्तानि यानि उद्यद्वाद्यानि स्फुरनिःखानादीनि तद्वादनपूर्वकं, तथा सश्रीकैः समृद्धिसंपन्नः, श्राद्धः क्लुप्तो रचितो यो महानुत्सवस्तत्पुरस्सरं यदा श्रीशाहिः सबहुमानं स्ववाद्यादि प्रदत्ते तदा शुभंभावुकाः श्रावकाः सुतरां महोत्सवादि रचयन्ति, यतः पूज्यः सर्वत्र पूज्यत इति ॥ १३६ ॥ अथ शाहिसन्मानप्राप्त्यनन्तरं, श्रीअनूचानेपु चक्रभृत् , उपाश्रयं पौषधागारम्, अलश्चक्रेऽलङ्कृतवानिति, कः कमिवेत्याहस्वर्गिस्वामी शक्र इव, वैजयन्तं निजनिवासमासादमिव, किं०, जयसुखयोराश्रयं, पक्षे जय इन्द्रसुतस्तस्य सुखाश्रयं सुखस्थानमिति ॥ इति युग्मव्याख्या ॥ १३७ ॥ रूप्यरूपैः प्रकुर्वाणः सुप्रसिद्धां प्रभावनाम् । . श्रीसंघस्तदिनात् तत्र चक्रेऽथाप्टालिकोत्सवम् ॥१३८॥ अथेति श्रीगुरूणामुपाश्रयागमनादनु, श्रीसंबस्तदिनादारभ्य, अष्टानिकोस अष्टदिनान यावदुत्सवं, चक्रे । कथमिति ?, रूप्यरूपै रजतनाणकः, सुप्रसिद्धां सर्वलोकगम्या, प्रभावनां प्रकुर्वाण इति ॥ १३८ ॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy