________________
४५४ विजयप्रशस्त्याम् ।
इत्युक्तरूपैः, सरीणां सभा तस्यां द्योतकत्वाचन्द्र इव चन्द्रस्तस्य वचनैः, उत्प्रेक्ष्यते-अमृतैरिव चन्द्रस्यामृतमयत्वात् , निपीतैः; अवनीजानिर्नृपः स एव चकोरः, प्रमनाः प्रमुदितोऽभूदित्यर्थः ॥ १३१॥
अहो ! मनीषैषाऽमीषामहो! वचनचातुरी। . चिन्तयन्निति चित्तान्तः पार्थिवः पुनरभ्यधात्॥१३२॥
प्रमोदप्राप्तेरेवेति चित्तान्तश्चिन्तयन् पार्थिवः पुनरभ्यधाव प्रोवाचति । किमिति ?, अहो ! अमीषां ज्ञानजुषां मनीषा, अहो ! चतुराणां वचनचातुरीति ॥ १३२॥
किमभ्यधादित्याहतेषामष्टावधानानां दिदृक्षाऽस्ति सभासदाम् । लतेव पयसां सेकात् सद्यः साऽस्तु फलेग्रहिः॥१३३॥
तेषां पूर्वदृष्टानां, अष्टसंख्यानां अवधानानां, सभासदां स- . भ्यजनानां, दिक्षा दर्शनेच्छा, अस्तीति; हे सूरे ! अध्याहारात्, सा दिदृक्षा, फलेग्रहिः फलवरास्तु, यथा-पयसां सेकात् लता फलवती भवतीति ॥ १३३ ॥ - ततः श्रीनन्दिविजयाभिधोऽथ विबुधोत्तमः ।
पूर्ववत् साधयामासाऽष्टाऽवधानानि सत्वरम् ॥१३४॥ - ततः शाहेर्वचनादनु, श्रीगुरुशिष्यः श्रीनन्दिविजयाख्यो विबुधोत्तमो विद्वद्वरः, पूर्ववत् पूर्वरीत्या, अष्टावधानानि साधयामास साधितवान् , सत्वरमिति शीघ्रं, पण्डितप्रयोज्येषु प्रयोजनेषु पण्डिता न विलम्बन्त इति ॥ १३४ ॥ । तत्कलारञ्जितो राजा समक्षं समपर्षदः। ‘बिरुदं खुशफेमेति ददावस्मै मनीषिणे ॥ १३५ ।।