SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ६१२ विजयाशस्त्याम् । चक्रे तथा कृतवान् यथा इह नगरे, स लोकैः, कल्पद्रुः अभ्यधायि फयित इति । इयमपि शालिनीति ॥ १६ ॥ श्रीस्तम्भतीर्थाहपुराधिवासि- . सौवर्णिकाग्रेसरतेजपालः । नाभेयदेवप्रतिमामचीकरद् नन्दतुसंख्याङ्गुलमानम लाम् ॥ १७ ॥ इहाऽवसरे श्रीस्तम्भतीर्थपुराधिवासी सौवर्णिकेषु अग्रे. सरो मुख्यः तेजपालश्चेति सोनीतेजपालनामा श्रीशत्रुञ्जयशिखरस्थमूलचैत्योद्धारकारी, तत्रैव वत्सरे नन्दा नव, ऋतवः पद्, वामगत्या ऋतुनन्दा इति तत्संख्यैः अङ्गुलमानेन प्रमाणेन मञ्जुलां मनोहराम् , एकोनसप्तत्यङ्गुलप्रमाणधारिणीम् , नाभेयदेवस्याऽऽदिनाथस्य,प्रतिमाम् ,अचीकरत् कारयति स्मेति । इयमिन्द्रवजेन्द्रवंशयोरुपजातिः ॥ १७॥ श्रीपत्तनद्रङ्गनिवासितेजः पालश्च सौवर्णिकवर्णनीयः । अकारयत सत्प्रतिमां हयाब्ध्य मुलैर्मितां सप्तमतीर्थभर्तुः ॥ १८ ॥ च पुनः, श्रीपत्तनद्रगनिवासी यस्तेजःपालः, किं०, सौ. पर्णिकेषु वर्णनीयो धनादिना श्लाघ्यः, सोऽपि तत्र वर्षे, सप्तमतीर्थभर्तुः श्रीसुपार्श्वस्य, सत्पतिमाम् , किं०, हयाः सप्त, अब्धयश्चत्वारः, अथ तैर्वामैः संयुतैः सप्तचत्वारिंशदङ्गुलैर्मिताम् , अकारयदिति । इयमिन्द्रवज्रा पूर्वार्धन, पश्चिमान तु उपेन्द्रवजा चेति ॥ १८ ॥ बिम्बाविमौ द्वावतिराज़दन्तौ
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy