________________
३१७
अष्टमः सर्गः । नित्याह-सोनूचानवरः श्रीमदाचार्यवर्यः, तां जयकन्यकां, किं०, नवोढां नवपरिणीतां, पुनः किं०, कान्तां अभीष्टां सर्वेषामिति शेषः । पुनः किं०, वरास्यां रम्यमुखीं, लात्वा किंलक्षणः सन्, कुलाङ्गनागीतमनांझगीतः सन् कुलस्त्रीगीतध्वनिपूर्वकमिति, निजोपाश्रयं स्वं स्थानं, आजगाम आगतवानिति युग्मव्याख्या ।। ५२ ॥
देशात् प्रभुः कुङ्कणदेशधात्रीलताविलासैककलावसन्तः ।
दुर्वादिवृन्दद्रुममत्तदन्ता
बलो बलाढ्यो ववलेऽथ तस्मात् ॥ ५३ ॥
I
अथ तस्माद् देशात्, स प्रभुर्ववले पश्चाद् वलितो गुर्जरत्रां प्रतीत्यन्वयः । किं०, कुङ्कणदेशस्य या धात्री पृथ्वी सैव लता वल्ली तस्या विलासैककलायां वसन्तः तच्छोभासंपाद कत्वात् पुनः किं०, दुर्वादिवृन्दान्येव दुमास्तरवस्तेषु मतदन्ताबलः प्रभिन्नगजस्तद्भञ्जकत्वात्, अत एव बलाढ्यः श्रुतबलादिपरिपूर्ण इति ॥ ५३ ॥
शस्तैः समस्तां सुखयन् धरित्रीं गोभिः पयोवाह इव स्वकीयैः ।
श्रीपत्तनं पत्तननाम तुङ्गं
दङ्गं क्रमात् प्रावृषि सोऽधिष्ठौ ॥ ५४ ॥
क्रमात् स गुरुः, ततो देशाद् विहरन कालान्तरेण स्वकीयगौभिर्वाग्भिः, पयोवाह इव गोभिर्जलैः, धरित्रीं सुखयन्, गोभिः किं०, शस्तैः प्रशस्तैः, गोशब्दस्य पुंस्त्रीलिङ्गत्वादिदं पुंविशेषणम्,