SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३१६ विजयप्रशस्त्याम् | विलासिनीगीतविनीतगीतः । अयं जयश्रीकरपीडनाह्वो महो महांस्तत्र पुरे प्रजातः ॥ ५० ॥ स्वर्लोको अमर्त्यलोकः भूलोको मर्त्यलोकः भुजङ्गलोकः पाताललोकः तेषां विलासिनीभिः खीभिः गीतानि गानगोचरीकृतानि विनीतानि विनयगर्भितानि गीतानि गुणावदातरूपाणि यस्य सः जयश्रीकरपीडनाहः जयलक्ष्मीकरग्रहाख्यः, -अयं उक्तलक्षणः, महः किं०, महान् तत्र पुरे, प्रजातोऽ भूत् ।। ५० ।। विचित्रवादित्र पवित्रपात्रविस्तारिशब्दैर्बधिरीकृताध्वा । भूयस्तमानन्दनिदानदान प्रह्वाखिल श्रावकदत्तमानः ॥ ५१ ॥ सद्यो नवोढां जयकन्यकां तां कान्तामनूचानवरो वरास्याम् | कुलाङ्गनागीतमनोज्ञगीतो लावा निजोपाश्रयमाजगाम ॥ ५२ ॥ विचित्राणि नानाप्रकाराणि यानि वादित्राणि भेरीमृदवीणावेणुप्रमुखाणि पुनः पवित्राणि च यानि पात्राणि राजनर्त्तकरूपाणि तेषां शब्दैः बधिरीकृतः अध्वा मार्गो यस्य सः, - पुनः किं०, भूयस्तमो अतिघनो य आनन्दो मोदः तन्निदानं कारणं यद्दानं तत्र प्रहैः आसक्तः अखिलैः सर्वैः श्रावकैः दतं मानं पूजालक्षणं यस्य सः ॥ ५१ ॥ एवंविधः कः किं च कृतवा
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy